This page has been fully proofread once and needs a second look.

प्रस्थस्सा नुरस्त्रिया" मित्यमरः । तस्य धीरताया धैर्यस्य आधारं

अधिकरणभूतम् । कुलाचलधीरतासदृक्षधैर्यशालिनमिति यावत् । त्वां

भवन्तं । नोनुभः पौनः पुन्येन भृशं वा स्तुमः । "णुस्तुता' विति धातोर्यङ्

लुकि प्रत्ययलक्षणेन 'सन्यङो' रिति द्वित्वे "पूर्वोऽभ्यास"

इत्यभ्याससंज्ञायां गुणे 'यङ्लुको' रित्यभ्यासस्य गुणे च लटि

परस्मैपदमुत्तमपुरुषबहुवचनम् ॥
 

 
अत्र रघूद्वहे पूर्णचन्द्रत्वारोपे सूर्यान्ववाये समुद्रत्वारोपस्य हेतुत्वेन

रूपकहेतुरूपकस्य वर्णनात् परम्परितरूपकालङ्कारः
 

 

सानुमद्धीरताधारमित्यत्र दार्थवृत्तिनिदर्शनालङ्कारश्च ॥
सर्वपादादौ
 
सानुमद्धीरताधारमित्यत्र पदार्थवृत्तिनिदर्शनालङ्कारश्च ॥

नुशब्दानुवृत्ते: अनुप्रासरूपशव्दालङ्कारश्चेत्येतेषां 'मौक्तिक पद्मराग' न्यायेन

संसृष्टिः । तदुक्तं- "ग्राह्ये भेदे तु संसृष्टिरग्राह्ये सङ्करस्स्मृतः" इति ॥ १॥

 
<bold>*
अथ पादतलवर्णनम्
 
*
 
*
 
<bold>
 
नमदिति ॥ नमतां नमस्कुर्वतां अमराणां - आदित्यानां किरीटानि

मुकुटानि तेषां पाल्यः पङ्क्तयः एव तन्मणिकान्तीनामुत्तरत्र दीपतया

वर्ण्यमानत्वात्। मिषारार्तिका: कपटनीराजनभाजनानि तासु लीनानि

श्लिष्टानि प्रत्युप्तानि च तानि सतां प्रशस्तानां चम्पकानां कुसुमानामाल्या:

पङ्क्ते: रुचि: प्रौढि: कान्त्यतिशयः तस्याः केलीसुहृन्दि लीलामित्राणि

तत्सदृक्षाणीति यावत् तानि (सदृशानीति पा०) रत्नानि वालवायजमणयस्ते

हि जात्या चम्पकप्रसूनसङ्काशकान्तिभाजो भवन्ति । तेषां पालीभिः

राजिभिः समञ्चंती सङ्गच्छमाना अर्थात्कान्तिभिरिति लभ्यते । प्रवालस्य

तत्र खचितस्य विद्रुमस्यायं प्रवालीयः । "प्रवालो विद्रुमः पुंसी 'ति
 
6
 
1
 
"ति