This page has been fully proofread once and needs a second look.

॥ श्रीमदानन्दतीर्थभगवत्पादाचार्येभ्यो नमः ॥
 

*
हरिः ॐ *
 

॥ श्रीरामदण्डक व्याख्या ॥
 

 

 
सान्द्रानन्दद्युसिन्धुबन्धुलहरीभिक्षाकनम्रामर-

स्फायन्मौलिकिरीटकोटिविलसन्नीलोपलाभोज्वलौ

जल्पाकालिकरालमल्लखुरलीभूतारुणाम्भोरुह -

श्रीलुण्टाकरुचीरघूद्वहमणे: पादौ चकास्तां हृदि ॥ १ ॥
 
-
 

 
कलादधानस्सकलास्समन्तादानन्दकन्दस्सुमनोजनानाम् ।

सदा वसन्सत्पदवीषु कामं भूयान्मुदे कोऽपि कलाधरो नः
 


 

 
इह खलु भगवतः श्रीमूलरामदेवस्य पादादिकेशवर्णनरूपमखण्ड

पण्डितमण्डलकण्ठमण्डनं दण्डकं चिकीर्षन् श्रीमुद्दुवेङ्कटकृष्णाभिधान:

( परिव्राज्यप्राप्त्यनन्तरं सुमतीन्द्रतीर्थ श्रीपादनाम्ना प्रथितः ) मनीषी

"आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्" । इति वचनान्नुतिरूपं

मङ्गलमादावाचरति -
"भानुवंशे "ति ॥ हे रघूद्वह ! राम
मङ्गलमादावाचरति
-
भानोस्सूर्यस्य वंशोऽन्ववाय एव अब्धिस्समुद्रः तस्य हर्षोत्कर्षहेतुत्वा

द्राकेन्दुं पूर्णचन्द्रं । धनुः प्रहरणमेषां ते धानुष्काः क्षत्रिया: । प्रहरणमिति

ठक् । "इसुसुत्क्रान्तात्क: " इति कः । तेषां कुलस्य वंशस्य शेखरं

-
श्रेष्ठम् । सानव: प्रस्था अस्मिन् सन्तीति सानुमान् पर्वत: । "स्नुः
 
(
 
-
 
5
 
-