This page has not been fully proofread.

4
 
तृतीयप्रताने प्रथमः स्तबकः
 
६५
 
रुद्रस्थानवत् । सज्जं वोरगणं विभ्रत् वनं, नृपवत् । अभिज्ञातिस्थितिः कुलीनो,
विदग्धगोष्ठीवत् । शोभितरङ्गान्वितो जलधिः, नटवत् । स्वस्थपुटताशाली
शैलमार्गी, मृदङ्गवत् । सुखदानस्थितिः वदान्यः, शाकटिकवत् । शोभाबहबला-
न्वितो, रुद्रो, नृपवत् । सुशोभनगरस्थितिः सुनृपः शिवकण्ठवत् । लोलपवन-
स्थितिः सागरतरङ्गः, गिरिवत् । सम्पन्नसुधाभोग: पार्थिवः, सुरवत् । बहुशो
भबनान्वितं पुरं, गिरिवत् । परमहेलाशाली द्वेधापि कामुकः । मनोहृद्योऽधस्थितिः
युद्धभूमिः, धेनुवत् । सुरुचिरमणीरमणीयः पाणिग्रहमहो, रोहणवत् । पृथुलक्षणं
गृहम्, चन्द्रवत् । स्वभावशरणधुरीणो द्वेधा सुभट: । समहासकलः सज्जनः, पूर्णि-
मेन्दुवत् । परमहसितश्रीः, सुकृतः, शिववत् । बहुलक्षपणं जैनदर्शनं, कुक्कुटायो-
धनवत् । एवमन्यस्वरान्तैरपि सामान्यशब्द: श्लेषः । यथा-सदारोपचितो
युवा, धनुर्धरवत् । बहुधान्यपुष्टश्रियान्वितः शरद् वसन्तवत् । अग्रतोरणशोभं
देवगृहं भटवत् । अथान्त्याक्षरत्रोटनायान्त्यप्रयोज्याः सामान्यशब्दाः, यथा—
 
कुलसत्करोचित कसत्कान्ताः कामात् क्रमादुदितः ।
कूटोपचितखरोचितखचितागतगाहितौ गुरूढश्च ॥
 
गूढो गीतं घाटोपचितं घोरीकृतश्च घनर्वाह ।
वान्तश्चितश्च रोचितचक्राश्चित रोचिताश्च यतः ॥ ४ ॥
छविराजित छविलासिप्रमुखाच्छलसच्छटोपचितौ
 

जाग्रगततोलसज्जातिज्ञातिज्ञानवधिनो ज्ञातम् ॥ ५ ॥
टोपति रोहिततनतस्तारीचिततनावधितुवराः स्युः ।
तान्तस्ततस्तुतश्च स्थपुटस्थामोदितस्थिरचिताश्च ॥ ६ ॥
स्थास्थितर्वार्द्धकरोचितदान्ताश्चामोदितो दूरात् ।
धनवधिधरोचितधवला धामोदितो धुरीणश्च ॥ ७ ॥
धीरोचितो धनव्यासङ्गोऽनवसन्नवर्द्धिनव्याप्ताः ।
नामोदितनियतोदितनिचितनिभासितनिकायनिहिताश्च ॥ ८ ॥
निकरनिवहौ च नियमो निचयनुतो न्यूनवर्द्धितोन्यस्तम् ।
प्रवरप्रमुख प्रकरप्रकामभारोचितप्रधानाः स्युः ॥ ६ ॥
प्रबलप्रसभप्रकटभावपूतप्रभूतपिहिताः स्युः ।
पुरतः प्रियमोदितकप्राग्रप्रामोदितप्रकाराः स्युः ॥ १० ॥
प्राग्रहरपीनवर्द्धिप्रस्तावप्रांशवः प्रकाशश्च ।
प्रविभासितः परोचितपिनद्धपरिवद्धिपरिचितस्फीताः ॥ ११ ॥
 
का ०९