This page has not been fully proofread.

अथ तृतीयप्रताने प्रथमः स्तबकः
॥ अथ श्लेषसिद्धिप्रतानः ॥
तत्र पूर्वं श्लेषव्युत्पादनं यथा-
-
 
वर्णाकारक्रियाबाराधेय सम्बन्धिबन्धवः ।
 
द्विपत्नीप्रियसम्पकिस्वामितुल्यगुणादय ॥ १ ॥
 
एषां स्यान्नामभिः श्लेषो नानार्थैर्वर्ण्य वस्तुनि ।
भङ्गश्लेषोऽधिककसन्मुख्यैः पूर्वाग्रः पुनः ॥ २ ॥
 
वर्ण्यवस्तूनां वर्ण्यादिनाम्नां मध्याद्यद्यन्नाम द्वयर्थं व्यर्थं नानार्थं वा भवति
तेन नाम्ना श्लेष: कार्य: । यथा धवलार्जुनहरिगोप्रभृतयः शब्दाः ।
 
भङ्गश्लेषस्तु वर्ण्यवर्ण्यादिनाम्नः पूर्वगतैरधिकादिभिरग्रगतैः कसदादिभिः
सामान्यशब्दर मिलति यथासम्भवं कार्य: । यथा कमलशब्दस्य मल इति
अंग्रेतनाक्षरार्थे मिलति पूर्वाक्षरकस्त्रोटयते । यथा अधिकमलशाली, अधिकशब्दःः
सामान्यः । तथा करकशब्दस्य कर इति पूर्वाक्षरार्थे मिलति उत्तराऽक्षरक-
स्त्रोटयते । यथा करकसल्लक्ष्मीः । कसच्छब्दः सामान्यः । पूर्वं पूर्वाक्षराणां
श्रोटनाय पूर्वप्रयोज्याः सामान्यशब्दा यथा -
 
अधिकस्वकस्वकीय कसश्रीका: सुखसुगौ पुरोगइच ।
 
ज्ञेयाः समानोच्चसदास्वच्छाः सदाच्छसज्जौ च ।
 
तज्ज्ञाभिज्ञसुखज्ञाः शोभितविभ्राजितादयः स्वस्थः ॥ ३ ॥
सुखदं तद्धि शोभा बद्ध सौन्दर्य प्रभृतितो बद्धम् । सम्पन्नसुशोभनलोलुप-
सम्पन्नवसगौरवमहाभा: । बहुशोभनसदाशुभबहुभाः परमसमानयामनोहुद्यम् ।
पीवरसुरुचिरमधुरा मञ्जुलपृथुलो स्वभावतः शंश्च । सुमुखदशः समहास:
ससमग्रहपरमहौ च बहुलक्षः ।
 
एतैः शब्दः पदानां पूर्वाक्षराणि त्रोटयन्ते । यथा -
 
,
 
सश्रीकपालिस्थितिः कैलासः, सरोवत् । स्वकलङ्काभोग: शशी, रावणवत् ।
सुखरोचित: कुलालः, सुकृतिवत् । सुखलीनस्तुरगः सुकृतिवत् । सुखद्योत-
स्तपात्त्ययो, नृपवत् । पुरोगबलस्थितिः सारङ्गधनुः, मल्लवत् । समानघनरसभासितं
अरः, नृपवत् । उच्चामरश्रीः नृपतिः, इन्द्रवत् । सदाऽच्छगणराजितं गोस्थानं
 
***...
 
.