2023-04-09 14:29:35 by ambuda-bot
This page has not been fully proofread.
1.
1
द्वितीय प्रताने चतुर्थ: स्तबक
इन्दुर्वक्त्रस्य वीप्सासदनमुपकथा पादयोः पङ्कजाली
पर्यायोऽलिः कबर्या ननु तनुमहसां कर्णिका कर्णिकारम् ।
आभासः कुम्भिकुम्भद्वयमुरसिजयोः कामकोदण्डदण्ड:
पाखण्डं भ्रूलताया रतिरभिनयनं पश्य रूपस्य यस्याः ॥ ३ ॥
उपमाने यथा -
-
उपमेये यथा -
व्याषेधो धरणीधरेशितुरनध्यायः सुधाया विधो-
रन्तर्द्धिर्धनदाचलस्य निधनं दुग्धोदसिन्धोः पिधा ।
प्रत्याख्यानममानवद्विपमहादेहद्युतेनिह्नवो
जाह्नव्यास्तव भूभुजङ्गयशसां भारो दिशां हारति ॥ ४ ॥
अन्येऽपि लक्षणाशब्दा लिख्यन्ते । यथा - लुण्टाक जल्पाक गृहयालु
स्पृहयालु घस्मर मेदुर भङ्गर छिदुर विदुर जागरूक वावदूक विकस्वर प्रमहर
सत्वर जित्वर गत्वर कम्प्र उन्मदिष्णु वैतण्डिक मायिक तुन्दिल तुण्डिक पिच
ण्डिल पिचण्डिक तुण्डिल तुण्डिक शुभंयुः दन्तुर जङ्घाल दंष्ट्राल भुजाल पांसुल .
प्रज्ञाल प्रज्ञिल रजस्वल फेनिल वाचाल वाचाट मुखर पङ्किल इत्यादयो विद्वन्नाम
चौर महोत्साह उद्धत कोपन वैरङ्गिक कर्मशूर अलङ्कर्माण कमंठ धृष्ट सज्जन
बन्धुगोत्रादीनां नामानि । एवं प्रकाराः शब्दा: लक्षणासाधका यथोचित्यं
प्रयोज्याः । यथा -
विप्रोऽप्ययं द्रुतमहीनमहीन कीर्ति-
र्लुण्ठाकशक्तिरपसादगुरुप्रसादः ।
वेध्यं प्रपातयति पश्यत रे नरेन्द्राः
कीर्तिस्मरन्मनसि गौररुचं न कृष्णाम् ॥ ५ ॥
६३
॥ इति श्रीजिनदत्तसूरिशिष्य महाकविपण्डितश्रीमदमरचन्द्रविरचितायां
कविकल्पलतावृत्तौ शब्दसिद्धिप्रताने लाक्षणिक स्तबकश्चतुर्थः ॥ ४ ॥
॥ सम्पूर्णश्चायं शब्दसिद्धिप्रतानो द्वितीयः ॥ २ ॥