2023-04-09 14:29:35 by ambuda-bot
This page has not been fully proofread.
1
i
द्वितीयप्रताने चतुर्थः स्तबकेः
६१
यदुक्तम् "एकशतं षष्ठ्यर्थाः" । क्वचित्तादर्थ्यादुपचारः । यथा इन्द्रार्थाः
स्थूणा इन्द्रः । क्वचित् स्वस्वामिभावाद्यथा - राजकोयः पुरुषो राजा । क्व-
चिदवयवावयविभावाद्यथा – अग्रहस्त इत्यग्रमात्रेऽवयवे हस्तः । क्वाऽपि
तात्कर्म्यात् । यथा – अतक्षा तक्षा । क्वचिन्मानाद्यथा-आढकमश्नाति । क्व-
चित् स्थानाद्यथा-मञ्चा: क्रोशन्ति । इत्यादयः सर्वे यथालक्ष्यं लक्षणीयाः ।
यदाहुः सहचरणस्थानतादर्थ्यवृत्तिमानधरणसामोप्ययोगसाधनाधिपत्येभ्यो
ब्राह्मणमञ्चकटराजसक्तुंचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावेऽपि तदुपचारः । एषु
शुद्धा लक्षणा ।
काचित् रूढ़ितः, काचित्प्रयोजनात्, काचित्सारोपा, काचित्साध्यव-
साना । इति लक्षणाविचारः ।
अथ लक्षणार्हाः केचिच्छब्दाः कथ्यन्ते-
चित्रेन्द्रजालवाच्य द्विर्भावस्वप्नयम कसंवादाः ।
द्वंगुण्याभिनयकथाद्विरुक्तिपर्यायवक्रपुनरुक्तिः ॥ ६ ॥
रूपावस्थार्थावपुर्भवान्तरं परिणतिविबत्तौ ।
अनुवादानुप्रासानुकृतिच्छायाप्रतिबिम्बशब्दौ च ॥ १० ॥
प्रतिवीर मल्लनायक कविवेशोबन्धुरनुकुलः ।
प्राण्याज्य ज्ञातिसुहृद्दायादसनाभिसहचरसतीर्थ्याः ॥ ११ ॥
सब्रह्मचारिनीलीरागसहाध्यायिसदृशसध्यञ्चः ।
गणनाधिक: सवर्णः संवादो सांयुगीनरिपू ॥ १२ ॥
अधिदैवतविद्यागुरुकुलनाथकुलपुरः पुरुषाः ।
ओङ्कारचक्रवत्तिक्षेमङ्करसार्थवाहतोर्थानि ॥ १३ ॥
ज्येष्ठसभापत्यग्रेसरोत्तमर्णप्रतीक्ष्यजितकाशि ।
अद्वैतवादिधुर्योल्लाघनगृहमेधिनोऽध्यक्षाः ॥ १४ ॥
तत्त्वब्रह्मोपनिषद्रहस्यचैतन्यधूतपरात्मनः ।
सौरभ्योत्कर्षरसाभोगानन्दाभिजात्यपरभागाः ॥ १५ ॥
लयसर्वस्वविलासास्तण्डुलनिर्यासभाग्य मज्जानः ।
जोविततात्पर्यार्थव्युत्पत्त्यपवादमर्ममकरन्दाः ॥ १६ ॥
साम्राज्यसिंहनादाहङ्कारैश्वर्य संस्कृतविपाकाः ।
सारोद्धारनिदानव्याख्याटी का चरित्रविश्रभाः ॥ १७ ॥