2023-04-09 14:29:35 by ambuda-bot
This page has not been fully proofread.
29065 206
काव्यकल्पलतावृत्तिः
51.177 गौर्वाहीको, गौरेवायम् । यत्रोपमानगतगुणतुल्यगुणयोगलक्षणं पुरःसरी-
: कृत्योपमेये उपमानशब्द आरोप्यते तो गौणौ भेदौ, गुणेभ्य आगतत्वात् गौणशब्द-
वाच्यौ ।
: सम्बन्धान्तरतः पुनः-
विज्ञेया शुद्धसारोपा शुद्धसाध्यवसानिका ॥ ७ ॥
आयुर्घृतम्, आयुरेवेदम् । अनयोः शुद्धभेदयोः कार्यकारणभावः सम्बन्धः ।
सादृश्याभावान्न गौणता । यथा आयुष्कारणं घृतम्, तथा न क्षीरादीति क्षीरादि-
• वैसादृश्येन आयुः शब्दान्न व्यभिचरतीति कार्यकारित्वादि प्रयोजनम् ।
C
षड्भेवेति लक्षणा-
उपादानलक्षणा, लक्षणलक्षणा, गौणसारोपा, गौण साध्यवसाना, शुद्ध-
सारोपा, शुद्धसाध्यवसाना इति षड्भेदाः ।
आरोप्यारोपविषयौ सारोपायां स्फुटाबुभो ।
पुनः साध्यवसानायामारोप्यान्तर्गतः परः ॥ ८ ॥
आरोप्यो गवादिः आरोपविषयो वाहीकादि: । सारोपा सादृश्यहेतुका,
एषा उपमानोपमेयस्य विद्यमानरूपत्वात् रूपकालङ्कारबीजम् । यत्रारोप्येण
गवादिना निगीर्णतया आरोपविषयस्य वाहीकादेः प्रतीतिः सा साध्यवसाना,
इयमतिशयोक्तेर्बीजम् । यथा -
यथा-
कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ १ ॥
कार्यकारणभावादिलक्षणायां तु न रूपकादिविषयता, सादृश्याभावात् ।
-
आयुर्घृतं यशस्त्यागो भयं चौरः सुखं प्रिया ।
वैरं द्यूतं गुरुर्ज्ञानं श्रेयः सत्तीर्थ सेवनम् ॥ २ ॥
तथा अन्यापदेशालङ्कारस्य साध्यवसानलक्षणात्वम् । यथा-
"अनर्घ्यः कोऽप्यन्तस्तव हरिण हेवाकमहिमा
स्फुरत्येकस्यैव त्रिभुवनचमत्कारजनकः" ॥
इत्यत्र हरिणेन सह प्रतीयमानस्याभेदः ।
सम्बन्धा बहवः