This page has not been fully proofread.

(
 
द्वितीयप्रताने चतुर्थः स्तबकः
 
'कर्मणि कुशलः' इत्यत्र कुशान् लातीति दर्भग्रहणायोगात् मुख्यार्थबाधे
विवेचकत्वादौ च सम्बन्धे रूढितः प्रवीणपुरुषरूपोऽर्थो लक्षणाव्यापारेण लक्ष्यते ।
एवं द्विरेफद्विपानुलोम्यलावण्यादयो रुढिशब्दास्तत एतेषु रूढिलक्षणा ।
 
'गङ्गायां घोषः' इत्यादौ प्रयोजनात् लक्षणा । प्रयोजनं च पावित्र्यादि-
व्यङ्ग्यम् । तत्त्वमिदम् ।
 
रूढिलक्षणायां तु शब्दस्य वाचको, लाक्षणिकश्चेति नामद्वयम् । अभिधा
लक्षणेति व्यापारद्वयम् । प्रयोजनलक्षणायां तु शब्दस्य वाचको लाक्षणिको
व्यञ्जकश्चेति नामत्रयम् । अभिधा लक्षणा व्यञ्जनं चेति व्यापारत्रयम् ।
रूढिलक्षणायान्तु व्यङ्गयप्रयोजनाभावात् शब्दस्य न व्यञ्जकता न व्यञ्जन-
व्यापारः ।
 
शब्दव्यापारो निरन्तरार्थनिष्ठोऽभिषा मता ।
 
स तु व्यवधानार्थनिष्ठो भवति लक्षण । ॥४ ॥
सव्यवधानो मुख्यार्थबाधादिहेतुत्रयान्तरितो यो लक्ष्यस्तटादिरर्थस्तत्र
विश्रान्तः शब्दव्यापारो लक्षणा । अभिधैव मुख्यार्थो बाधिता सती अचरितार्थ -
त्वाद् अन्यत्र प्रसरतीति तत्पुच्छभूतैव लक्षणा ।
 
शुद्धोपचार
मिश्राऽसौ द्विधा शुद्धाऽपि हि द्विधा ।
उपादानलक्षणाऽऽद्या
 
परा लक्षणलक्षणा ॥५॥
उपादानं स्वसिद्धयर्थं पराक्षेपः-
यथा पुरे कुन्ताः प्रविशन्ति, अत्र कुन्तैः स्वप्रवेशसिद्धयर्थं स्वसंयोगिनः
पुरुषा आक्षिप्यन्ते । तत उपादानेनेयं लक्षणा ।
 
परार्थं स्वार्पणं लक्षणेन लक्षणलक्षणा ॥ ६ ॥
 
यथा गङ्गयां घोषः । अत्र तटस्य घोषाधिकरणतासिद्धये गङ्गाशब्दः
स्वार्थमर्पयतीतीत्यादौ लक्षणेन लक्षणा । अयमभिप्रायः । यत्र शब्द: सर्वथा
स्वमर्थ मत्यजन् अन्यमर्थ लक्षयति तत्र लक्षणेन तटादिज्ञापनेन लक्षणा स्यात् ।
यत्र तु स्वार्थमपि वदन्नन्यमुपादत्ते तत्रोपादानेन लक्षणा । इमो द्वावपि भेदी
शुद्धौ उपचारेणामिश्रत्वात् । यथा गौर्वाहीक इत्यत्र वस्त्वन्तरे वस्त्वन्तरमुप-
चर्यंते, न तथाऽत्रेति भावः । उपचारमिश्र पि चतुर्विधा ।
 
सावृश्यावृगौणसारोपा गौणसाध्यसानिका ।