2023-04-09 14:29:34 by ambuda-bot
This page has not been fully proofread.
brethunaadishthaa
काव्यकल्पलतावृत्तिः
लक्ष्यावगमनशक्तिर्लक्षणाः । व्यङ्ग्यव्यञ्जनक्षमस्य व्यञ्जकशब्दस्य व्यङ्ग्य-
निष्ठो व्यङ्ग्यावगमनशक्तिर्व्यञ्जनम् ।
मुख्यार्थबाधे मुख्यार्थासन्नत्वे लक्ष्यतेऽपरः ।
रूढेः प्रयोजनाद्वाऽर्थो परसोक्ता लक्षणा बुधैः ॥ ३ ॥
मुख्यार्थबाधाऽनुपपत्तेरनुपयोगाच्च 'कर्मणि कुशल : ' 'गङ्गायां घोषः'
इत्या-
दावनुपपत्तिः । 'रामोऽस्मि सर्वं सहे' इत्यादावनुप्रयोगः । अत्र प्रस्तावादभिधेय-
प्रतिपत्तौ रामशब्दोऽनुपयुज्यमानत्वात् बाधितार्थ: स्वाभिधेयभूतार्थगामित्वरूप-
सम्बन्धाद्राज्यभ्रंशप्रवास पितृसीतावियोगादिदुःखपात्रत्वं लक्षयति । असामान्य-
निर्वेदादिव्यङ्ग्थं प्रयोजनम् । मुख्यार्थासन्नत्वं पञ्चधा । यदुक्तम्-
५८
अभिधेयेन सम्बन्धात् सादृश्यात्समवायतः ।
वैपरीत्यात् क्रियायोगात् लक्षणा पश्चधा मता ॥
अभिधेयं मुख्यार्थस्तेन सह सम्बन्धो यथा - 'गङ्गायां घोषः' । अत्र गङ्गाशब्दा-
भिधेयस्य स्रोतसो घोषाधारतानुपपत्तेः मुख्यार्थबाधे योऽयं समोपसमीपिभावात्मा
सम्बन्धस्तदाश्रयणेन गङ्गाशब्दस्तटं लक्षयति । गङ्गात्वे एकार्थसमवेतपुण्यत्व-
मनोरमत्वशैत्यादिप्रतिपादनं व्यङ्ग्यं प्रयोजनम् । न हि तत्पुण्यत्वादिगङ्गातट-
इत्यादिशब्दान्तरैः स्रष्टुमपि शक्यते ।
सादृश्याद्यथा- गौर्वाहीक: गौरेवायं वा । इत्यादौ मुख्यार्थस्य सास्नादि-
मत्त्वादेः प्रत्यक्षादिप्रमाणेन बाधे अभिधेयेन सादृश्यात्तद्गतजाड्यमान्द्यादिगुण-
सदृशजाड्यामान्द्यादिगुणयुक्तो वाहीको लक्ष्यते । प्रयोजनं सारोपायां ताद्रूप्य-
प्रतिपत्तिः । साध्यवसानायां सर्वथाऽभेदप्रतिपत्तिः ।
समवायात्साहचर्याद्यथा- कुन्ताः प्रविशन्तीत्यादौ कुन्तानां प्रवेशानुपपत्त्या
मुख्यार्थबाधे साहचर्यात् यथा - कुन्तवन्तः पुरुषा लक्ष्यन्ते । प्रयोजनन्तु रौद्रत्वा-
दीनां सातिशयानां प्रतिपादनम् ।
वैपरीत्याद्यथा - अभद्रमुखे भद्रमुखः । अत्र भद्रमुखशब्दस्य अभद्रमुखे
प्रयोगात् स्वार्थबाध: । अतोऽसौ स्ववाच्य भूतस्य भद्रमुखत्वस्य वैपरीत्यादभद्र-
मुखत्वं लक्षणयाऽवगमयति । प्रयोजनं तु गुप्तासभ्यार्थप्रतीतिः ।
क्रियायोगाद्यथा- महति समरे शत्रुघ्नस्त्वम्, इति । अत्राशत्रुघ्ने शत्रुघ्न-
शब्दप्रयोगात् स्वार्थबाध: । शत्रुघ्नशब्दश्च अशत्रुघ्ने शत्रुहनन क्रिया कर्तृत्वायोगात्
लक्षणया प्रयुक्तः । प्रयोजनं च वर्ण्यमानस्य शत्रुघ्नशब्दाभिधेयनृपरूपता-:
प्रतिपादनम् ।