This page has not been fully proofread.

द्वितीयप्रताने चतुर्थः स्तबकः
 
५७:
 
अरशब्दस्य सदृशाः कादिक्षान्तशब्दाः यथासम्भवं लिख्यन्ते । अर कर
खर गर घर चर घरट्ट जरया क्षरया विड्वर तरणि संस्तर दर धर नर परस्पर
अम्बर भर मर वर शरवण सर हर अक्षर । तथा आर कार गार चार जार
दार तार धार व्यापार स्फार भार मार वार सार हार क्षार । तथा । आ
काम ग्राम आचाम जामयः तामस दाम धाम नाम पामया याम राम चाम श्याम
 
साम क्षामाः । तथा कीर चीर जीरक तीर नीर धीर भीरवः सीर हीर क्षीर
कोटीर कुटीर वानीर महीरमणाः । तथा – अर्ण कर्ण तर्णक पर्ण वर्ण स्वर्ण
अर्णव । एवं सर्वशब्देषु शब्दान्तराणि गवेषणीयानि ।
 
शब्दस्य सकलान् वर्णान् स्वरैः सर्वैः क्रमाक्रमात् ।
संयोज्य जनिताः शब्दाश्चित्रानुप्राससिद्धिदाः ॥ १०५ ॥
एते शब्दाश्छन्दोऽभ्यासस्तबके शब्दभेदजशब्दविवरणात् ज्ञेयाः ।
॥ इति श्रीजिनदत्तसूरिशिष्यपण्डित श्रीमदमरचन्द्रबिरचितायां
काव्यकल्पलताक
विशिक्षावृत्ती शब्दः सिद्धिप्रताने
द्वितीयेऽनुप्रासस्तबकस्तृतीयः ॥ ३ ॥
 
अथ चतुर्थः स्तबकः
 
अथ मुख्यलाक्षणिकव्यञ्जकानां शब्दानां स्वरूपमाह -
 
शब्दो मुख्यो लाक्षणिको व्यञ्जकश्च त्रिधा मतः ।
मुख्यार्थवाचको मुख्यो व्यापारोऽर्थेऽस्य चाभिधा ॥१॥
लक्ष्याश्रितो लाक्षणिको व्यापारो लक्षणाऽस्य तु ।
 
व्यङ्ग्ययुक्तो व्यञ्जकोऽस्य व्यापारी व्यञ्जनं मतम् ॥ २ ॥
 
साक्षात्सङ्केतविषयो गोपिण्डादिर्वाच्यो मुख्योऽर्थस्तदभिधायी गोप्रभृति-
शब्दोऽपि मुख्यः । अस्य मुख्यशब्दस्य मुख्यार्थे व्यापारः सङ्केतापेक्षा, वाच्याऽव
गमनशक्तिरभिधा । लक्ष्यलक्षकस्य लाक्षणिकशब्दस्य लक्ष्यनिष्ठो व्यापारो :
का०-६