This page has not been fully proofread.

: ५६
 
काव्यकल्पलतावृत्तिः
 
अर्थमा वर्यमाहात्म्यसन्तप्तः सप्तसप्तिवत् ।
आतं मार्त्तण्डचण्डश्रीर्मणिदिनमणिद्युतिः ॥ १२ ॥
द्योतनः प्रद्योतनवत् सहस्रांशुमहः सहः ।
भास्वद्भास्वद्भानुभानुः शौर्यंसूर्य रविच्छवि: ॥ ६३ ॥
पतङ्गचङ्गतरणितरस्वस्तिगभस्तयः ।
विरोचनरोचन श्रीः पूषा भूषार्ककर्कशाः ॥ १४ ॥
नभो नभोमणिः प्रांशुः खरांशुः कोपगोपतिः ।
दण्डदण्डधरो ध्वान्तकृतान्तसमविक्रमः ॥ ६५ ॥
करालकालसद्धर्मो धर्मराजोऽन्तकान्तकृत् ।
होना पीनाशकीनाशवर्तिना समवर्तिना ॥ ९६ ॥
सुश्राद्धश्रद्धदेवेन शमनो दमनो द्विषाम् ।
सम्मदो कौमुदीकान्तः साक्षाद्दाक्षायणीपतिः ॥ १७ ॥
दोषधीरोषधीभर्ता मुदः कुमुदबान्धवः ।
 
दैवाज्जैवातृकः सोमः कोमलो बिन्दुरिन्दुत् ॥ ६८ ॥
विधुविधुरितो राजा राजानिस्तन्द्रचन्द्रमाः ।
दक्षनक्षत्रनाथश्री: रोहिणी रोहिणीशरुक् ॥ १६ ॥
स्फारा तारापतिस्तारतारकास्तारकः प्रभुः ।
गिरमाङ्गिरसक्षीबपीवजीवोऽगुरुर्गुरुः ॥ १०० ॥
धिषणो धिषणोदग्रश्चित्रश्चित्रशिखण्डिजः ।
वाचं वाचस्पतिः सौरिभूंरिबृहद्बृहस्पतिः ॥ १०१ ॥
सचिवायंसुराचार्यसभृङ्गीपतिगीष्पतिः ।
इति शब्दा नृपामात्यनृपपुत्रादिवर्णने ॥ १०२
यथौचित्यं प्रयोक्तव्याः शीघ्रानुग्राससिद्धये ॥ १०३ ॥
अनुप्रासानयनोपायान्तरमाह-
आदिक्षान्तलिपो कादिक्षान्तशब्दगवेषणम् ।
'चित्रानुप्रासयमकशब्दनिश्चयकृद्भवेत् ॥ १०४ ॥
अकारादिक्षकारान्तशब्दे सति अन्ये तत्सदृशाः ककारादिक्षकारान्ताः
शब्दा वीक्ष्यन्ते चित्रानुप्रासयमकशब्दनिश्चयो भवति । यथा -