2023-04-09 14:29:18 by ambuda-bot
This page has not been fully proofread.
भावभूमिः
अहो ! संस्कृतसाहित्यस्य विभूतिः । या वयोवर्षिष्ठत्वेन महामहीखण्डमण्डल-
व्याप्तित्वेन दुष्परिच्छेदेन परिणामेन, निरतिशयेन वैभवेन, अनन्यतुल्येन सौन्दर्यप्रकर्षेण
संस्कृतीतिवृत्तोपयोगिगुणेन च भाषान्तरसाहित्यवैभवमतिशेते । साहित्यमिदं पौरुषेया-
पौरुषेयभेदेन द्विविधम् । पौरुषेयमपि काव्यशास्त्रविभेदेन विभक्तं धीमतां विनोदाय
पाटवाय च । काव्यानामपि शास्त्रतां साधयन्ति सुधियः, हितोपदेशकत्वात्, प्रवृत्ति-
निवृत्तिकारित्वाच्च । काव्यशास्त्रमिदं काव्यालङ्कार - काव्यशास्त्र - क्रियाकल्प - साहित्यविद्या -
अलङ्कारशास्त्र - साहित्यशास्त्रादिकतिपयनामभिः ससम्मानं सानुरागं च समाहूयते । संस्कृत-
भाषायाः साहित्यशास्त्रस्येतिहास: गुरुतमः । न कस्या अपि भाषायाः काव्यशास्त्र-
मद्यापि तज्जेतुं पारयति । भाषायामस्यां विरचिता आलङ्कारिकग्रन्थाः स्वसारशालितया
विचारगभीरतया चेतरभाषाणां ग्रन्थान् सलीलं पराभवन्ति । अस्या भाषायाः काव्य-
शास्त्रीयग्रन्थेषु यद् व्यापकत्वं यद्गभीरत्वं यद्भिन्नार्थकत्वं यत्प्रकृष्टत्वं यन्निशितत्वं
यदोजस्त्वं यत्सूक्ष्मत्वं यच्च कामधुक्त्वं विद्योतते न तत्कस्या अपि भाषाया आलङ्कारिक-
ग्रन्थेषु दरीदृश्यते ।
साहित्यशास्त्रस्योपादेयता
साहित्यशास्त्रशब्देन तत्साहित्याङ्गं विवक्षितं यत्र काव्यभेद- तत्स्वरूप तद्गत-
गुणदोषालङ्कारादीनां निरूपणं क्रियते । शास्त्रमिदं पौरुषेयापौरुषेयग्रन्थानां ज्ञानाय
नितान्तमपेक्षितम् । अत एव साहित्यशास्त्रमपि शास्त्रान्तराणीव परमोपादेयं शास्त्र-
मस्ति । वैदिकानां लौकिकानाञ्च शास्त्राणां सर्वाङ्गीणतया ज्ञानं तावत्र भवितुमर्हति
यावदलङ्कारशास्त्रस्य प्रागल्भ्यं न वर्तते । तत्र वेदवेदाङ्गादिषु अलङ्कारशास्त्रस्य महत्त्व-
मवलोकयन्तु विचक्षणाः । पुरा महर्षिविश्वामित्रः स्वानुयायिभिः शतद्रु-विपासानद्योः
सङ्गममगच्छत् । तत्र तस्य हृदि नद्योस्तयोरुच्छ्वसितं जलमवलोक्य भावोद्रेकेन सहसा
काव्यधारा प्रवाहिता-
प्रपर्वतानामुशतीं उपस्थादवे इव
गावेव शुभ्रे मातरारिहाणे विपाछुतुद्री
विषितेहासमाने ।
पयासा जवेते ॥
(ऋग्वेदः, ३/३३/१)
'गावेव' इत्यत्रोपमालङ्कारस्य चमत्कारितावलोक्यते । तत्र ऋग्वेदेऽलङ्कारतत्त्व-
स्यानेकान्युदाहरणानि दृष्टिगोचराणि भवन्ति । यथा-
'उभ्रातेव पुंस एति प्रतीची गर्त्तारुगिव सनये धनानाम् ।
जायेव पत्य उशती सुवासा उषाहस्रेव विरिणीते अप्सः' ॥
(ऋग्वेदे, १/१२४/७)