This page has not been fully proofread.

7
 
1
 
द्वितीयप्रताने तृतीयः स्तबकः
 
चञ्चत्पञ्चशरः पुष्पपुष्पास्त्रो घस्मरः स्मरः ।
प्रद्युम्नद्युम्न कन्दर्प कन्दसद्ददर्पकाः ॥ ७७ ॥
 
मनो मनोभवो भव्यवदनो मदनोपमः ।
पीनमीनध्वजः कामकामना मारसारता ॥ ७८ ॥
शृङ्गारयोनिः शृङ्गारस्तम्बशम्बरसूदनः ।
अनङ्गवङ्गसङ्गत्या मधुमित्रपवित्रभाः ॥ ७९ ॥
 
अथ मन्मथवद्द्नप्रसूनशरभासुरः ।
प्रजा प्रजापतिर्द्धर्ता जगत्कर्ता विधिविधिः ॥ ५० ॥
 
ब्रह्म सब्रह्मचारित्वं पितामहमहा महान् ।
स्रष्टा स्पष्टास्फुरन्मेधा वेधाः कमलभूरभूत् ॥ ८१ ॥
स्वयम्भूमिः स्वयम्भूवद्धाता त्राता जगत्त्रयीम् ।
चतुरा चतुरास्यश्रीः पद्मभूः सद्मसम्पदाम् ॥ ८२ ॥
परमेष्ट: परमेष्ठी वेदगर्भसगर्भभाः ।
 
शता नन्दकृतानन्द द्रोहिणो हिणाकृतिः ॥ ८३ ॥
सुरज्येष्ठः सतां ज्येष्ठो नाभिभूर्नाभिभूतये ।
श्रीमानिन्द्र इवोन्निद्रः कश्चिददुश्चवनोपमः ॥ ८४ ॥
 
महामहाः सहस्राक्षः समन्यू: शतमन्युवत् ।
वर्यः पर्यंज्ञवत्पूर्वः पूर्वदिक्क्रान्तकान्तमाः ॥ ८५ ॥
सुनासीर सुनासीर: साक्षादिव दिवस्पतिः ।
शक्रवक्रपुरुहूतपूतः सुत्रामधामभाक् ॥ ८६ ॥
नास्तो वास्तोष्पतिः क्षोणीखण्डमाखण्डलप्रभः ।
अनघो मघवा भूपः सपुरन्दरसुन्दरः ॥ ८७॥
वासवासवसारौजा बिडौजा दम्भजम्भजित् ।
ससङ्क्रन्दनसङ्क्रन्दपाकशासनशासनः ॥ ८८ ॥
प्राचीनबर्हिः प्राचीनवर्गः स्वर्गपतिप्रभः ।
आदित्यनित्यसविता कविता क्रूरशूरवत् ॥ ८ ॥
अंशुमाली महःशाली दिवाकर इवाकरः ।
द्वादशात्मा महात्माऽसौ त्रयीतनुमनुव्रजन् ॥ १० ॥
 
जगच्चक्षुः सक्षश्रीरहर्पतिमहस्ततिः ।
धर्मकर्मकर्मसाक्षीः पवित्रश्चित्रभानुवत् ॥ ११ ॥
 
-५५