2023-04-09 14:29:33 by ambuda-bot
This page has not been fully proofread.
५४
काव्यकल्पलतावृत्तिः
सब्रह्मचारी सब्रह्म यमाहुर्बाहुलेयवत् ।
शाखा विशाखा क्रौञ्चारिसञ्चारिशरभूशराः ॥ ६३ ॥
तारका तारकारातिर्नादद्वादशलोचनः ।
विश्वरूपस्वरूपश्रीः क्रतुपुरुषपौरुषः ॥ ६४ ॥
दामोदरवदुद्दामो धरणीधरदुर्धरः ।
श्रीवत्सवदतुच्छश्रीः सत्रिविक्रमविक्रमः ॥ ६५ ॥
सेवासु वासुदेवाभः सहृषीकेशपेशलः ।
विष्वक्सेन विष्वक्सेनच्छद्मना पद्मनाभवत् ॥ ६६ ।
विष्णुवत्तिष्णुवैकुण्ठकुण्ठलोकेशकेशवाः ।
द्विट् मुण्डपुण्डरीकाक्षो भारान्नारायणप्रभुः ॥ ६७ ॥
स्फीतां पीताम्बरो मञ्जुर्मञ्जुकेशाच्युताच्युताः ।
श्रीवत्साङ्कशशाङ्कश्रीर्जनार्दन इवार्दनः ॥ ६८ ।
सदा गदाधरः शाली वनमाली हरिर्हरिः ।
आशादाशार्हवबाणः पुराणपुरुषक्रमः ॥ ६८ ॥
इन्द्रोपेन्द्रकृष्णकृष्णपुरुषोत्तमपौरुषाः ।
वृषा वृषाकपिः सेतुस्तार्क्ष्यकेतुरजोग्रजः ॥ ७० ॥
नयज्ञयज्ञपुरुषविक्रमोपमविक्रमः ।
विष्टरश्रवसाविष्टो विश्वं विश्वम्भरः प्रभुः ॥ ७१ ॥
मनाक्सनातनः शौरिगौरिर्गोविन्दविन्दतिः ।
द्वीपश्रीपतिदैत्यारिशैत्या कुन्दमुकुन्दवत् ॥ ७२ ॥
आगंधमाधवः पद्म पद्मशयवदाशयः ।
बलदेवबलों देवः सीरभृद्वीरविक्रमः ॥ ७३ ॥
कालिन्दीकर्षणोत्कर्षसोद्रे कस्त्वे ककुण्डलः ।
लोलां नीलाम्बरो भद्रबलभद्रो हली बली ॥ ७४ ॥
कुशली मुशली तालध्वजोत्तालो बलाद्वलः ।
ततो लम्ब: प्रलम्बघ्नः क्षमापालः कामपालवत् ॥ ७५ ॥
अनन्तानन्तसङ्ग्रामो रामकामः सरामवत् ।
सङ्कल्पजन्म कल्पश्रीविषमा विषमायुधः ॥ ७६ ॥
!