2023-04-09 14:29:33 by ambuda-bot
This page has not been fully proofread.
द्वितीयप्रताने तृतीयः स्तबंकः
एवं सामान्यशब्दानां ज्ञेयाऽनुप्रासवासना ।
अथो कथादिके राजवर्णनाद्यपयोगिनः ॥ ४८ ॥
अनुप्रासस्य सिद्ध्यर्थं शब्दान् कतिपयान् ब्रुवे ।
महादेव महाशर्व गर्वाहर मनोहर ॥ ४६ ॥
उग्रोऽग्रो गिरि गिरिशो वर्गो भर्गोत्तमक्रमः ।
धराधीशानिशानश्रीर्भवप्रवरवैभवः ॥ ५० ॥
विना पिनाकिना चेतो वह्निरेताः शिवः शिवः ।
शम्भुनिशुम्भनो रुद्ररौद्रो निःशङ्कशङ्करः ॥ ५१ ॥
म कपर्दी भूपालिकपालीभीमभीमभा ।
स्थाणुः स्थाणुर्वामदेव वामो भैरवभैरवः ॥ ५२ ॥
खण्डपरशुरखण्डश्रीनिस्तन्द्रश्चन्द्रमौलिवत् ।
जिताराति: पुरारातिः सव्योमकेशपेशलः ॥ ५३ ॥
नीलकण्ठसदृड्नीलो नोललोहितलीलया ।
विरूपाक्षः सरूपाक्षः कृत्तिवासाः प्रकाशभाः ॥ ५४ ॥
वृषा वृषाङ्कसर्वाङ्ग खट्वाङ्गधरदुर्धराः ।
श्रीकण्ठोत्कण्ठया कण्ठे कण्ठेकालकरालरुक् ॥ ५५ ॥
ईश्वरोऽनश्वरः स्फूर्जद्धूर्ज टिर्मूलशूलभृत् ।
मृत्युं मृत्त्युञ्जयस्फूतिरष्टमूर्तिस्मृतिमान् ॥ ५६ ॥
भूतप्रभुः प्रभूतश्रोविष्टपः शिपिविष्टवत् ।
गौरीगौरीशकालोशशाली चण्डीशचण्डिमा ॥ ५७ ॥
दुर्गा दुर्गाणि रुद्राणी वाणी शर्वाणिपाणिना ।
बात्या कात्यायिनी सर्वमङ्गला सर्वमङ्गला ॥ ५८ ॥
नवानीता भवानी साडपर्णा वर्णा शिवाऽशिवा ।
रणे गणेशविघ्नेशनिघ्ने हेरम्बडम्बराः ॥ ५६ ॥
परः परशुपाणिश्रीः सनायकविनायकः ।
. स्तम्बो लम्बोदरो दन्तैकदन्तेभास्यलास्यवत् ॥ ६० ॥
दूषको मूषकरथो महासेनमहा महान् ।
स्वामी कामी कृतास्कन्दः स्कन्दषण्मुखसम्मुखाः ॥ ६१ ॥
महावेजो महातेजा दत्तातिः कार्तिकेयवत् ।
कुमारसारसेनानी: सेना गायगेयता ॥ ६२ ।
५.३,