This page has not been fully proofread.

५२
 
काव्यकल्पलतावृत्तिः
 
अपदान्तरनान्तश्रीरनन्तरपरस्परः ।
संसक्तव्यक्तो नेदिष्ठदिष्टोऽथ दूरपूरतः ॥ ३३ ॥
विप्रकृष्टः प्रकृष्टश्च दवीय : पदवी तथा ।
दविष्ठविनिविष्टोsथ धर्मकर्मणि शर्मभाक् ॥ ३४ ॥
 
सतत्त्वसत्त्व सहजसहचारीति नीतिमान् ।
रूपस्वरूपस्वभावभावसंसिद्धिसिद्धयः ॥ ३५ ॥
निसर्गसर्गप्रकृतिकृतिनो लक्षणक्षणाः ।
 
शीलानश्लीलशीलोऽथ स्वस्थावस्थादशावशात् ॥ ३६ ॥
 
रतिस्थिति रथो स्नेहासन्देहप्रीतिरीतितः ।
प्रेमस्थेमातिदाक्षिण्यदाक्षाऽनुकूलमूलतः ॥ ३७ ॥
सम्भ्रमभ्रमसम्पर्कात् तर्कनिःशङ्कसङ्कराः ।
अवधाननिधानश्रीः समाधानविधानतः ॥ ३८ ॥
 
प्रणिधानसुधाधानसमाधिर्व्याधिबाधिनी ।
धर्मशमंकरः पुण्यनैपुण्यो वृषनिस्तृषः ॥ ३९ ॥
श्रेयः प्रेयो भागधेयः सन्धयः सुकृतं कृतम् ।
नूतनाकृतसामन्तमतता भावभावना ॥ ४० ॥
स्वयमाशयातिशयादथ विस्तारतारता ।
प्रपञ्चसञ्चनाव्यासविन्यासाभोगभोगता ॥ ४१ ॥
 
नवच्छायोच्छ्यारोहणेहच्चय समुच्छ्रयाः ।
अथोदग्रसमग्रत्वमुच्छ्रितस्थितसंश्रितः ॥ ४२ ॥
 
रङ्गतुङ्गच्चङ्गदुच्चनुन्नीन्नतधुरोद्धुराः ।
समस्तन्यस्त सकलसकलोद्गर्वसर्वता ॥ ४३ ॥
नूनमन्यूननिखिलविलसद्विश्वविश्वता ।
अखण्डमण्डनाव्यग्र समग्राशेषशेखराः ॥ ४४ ॥
अखिलानाविलः शुद्धमुद्धतं रुचिरं शुचिः ।
पवित्रचित्रताभावपावनः पूतनूतनः ॥ ४५ ॥
ज्वलदुज्ज्वलविमलोत्तमौ मिलदनाविलः ।
नवीनपीन सद्यस्कहृद्यतानुतनुतना ॥ ४६ ॥
प्रत्यग्राव्यग्रताभव्यनव्यत्वाभिनवस्तथा ।
 
निकामरामातिमात्रगात्रतैकान्तकान्तता ॥ ४७ ॥
 
(Ez9 ।