This page has not been fully proofread.

काव्यकल्पलतावृतिः
 
कामे विषमादस्त्राणि श्रीभ्यः पुत्रा रतिप्रियाः ।
मधुभ्यः सुहृदो मीनमकरेभ्यो ध्वजादयः ॥ ३७ ॥
अनिरुद्धात्पितृमुखाः शम्बरात् सूर्यकाद्भिदः ।
पश्चादितः शरप्राया पुष्पेभ्य: केतनानि च ॥ ३८ ॥
मृणालाद्धनूंषि पुष्पेभ्यो बाणास्त्रधनूंषि च ।
 
शृङ्गाराभ्यां सङ्कल्पाच्चित्तेभ्यो योनिसन्निभाः ॥ ३६ ॥
तार्थेऽरुणेभ्योऽवरजा विष्णुभ्यो वाहनानि च ।
विनंतायाः सुपर्ण्याश्च कश्यपाच्च तनूद्भवाः ॥ ४० ॥
सर्पेभ्योऽरयः पक्षिभ्यो नाथा वज्रिमुखाज्जितः ।
दैत्ये दितेर्दनोः पुत्रा देवेभ्यो रिपवस्तथा ॥ ४१ ॥
पृथिव्यामब्धिभ्यो नेमीमेखलावसनानि च ।
शैले भूभ्यो धराधोप्युदयाद्रावृदयात्तथा ॥ ४२ ॥
पूर्वादेगिरयोऽस्ताद्रावस्तात्प्रत्यङ्मुखान्नगाः ।
हिमाद्रावुदग्रहिमेभ्योऽद्रिपोऽद्रिभ्योऽधिपस्तिथा ॥ ४३ ॥
मेनकायाः प्रियसमाः पार्वतीभ्यो गुरुः पुनः
मलयें दक्षिणाच्छला: कैलासे स्फटिकान्नगाः ॥ ४४ ॥
मेरौ स्वर्गिभ्य: स्वर्गेभ्य: सुवर्णेभ्योऽपि भूधराः ।
सूर्येभ्यः कान्ते सूर्येभ्योऽग्निभ्यो रत्नोपलादयः ॥ ४५ ॥
चन्द्रेभ्यः कान्ते चन्द्रेभ्यो मणयो दृषदोऽपि च ।
 
अब्धौ नदीभ्यो वारिभ्यः स्रोतसो यादसोऽधिपाः ॥ ४६ ॥
अभ्यो निध्याशयौ राशिधिर्दग्धादेः परेऽर्णवाः ।
 
गङ्गायां सिद्धात् स्वःस्वर्गिनभोभ्यो निम्नगाः समाः ॥ ४७ ॥
जह्नोः पुत्र्यः कालिन्द्यां कलिन्दादर्कादितः सुताः ।
कृतान्तेभ्यो भगिन्योऽपि रेवायां मेकलात्तथा ॥ ४८ ॥
चन्द्रेभ्यस्तनयास्ताप्यां तपनेभ्यस्तनूद्भवाः ।
अब्जे जलेभ्य: सरसः पङ्कज्जन्मजरुहाः ॥ ४९ ॥
शृङ्गे पुष्पेभ्यो मध्वादेलिंहः षट्शब्दतोङ्यः ।
सर्षे बातेभ्योऽशनाद्या द्विशब्दाद्रसनासमाः ॥ ५० ॥