This page has not been fully proofread.

1
 
1
 
i
 
द्वितीयप्रताने द्वितीयः स्तबकः
 
पिनाकाच्च कपालाच्च कपर्दाच्च भृदादयः ।
गौर्या महिषेभ्यः शुम्भात् निशुम्भान्मथनीमुखाः ॥ २३ ॥
भवेभ्यः प्रिया मेनाया हिमाद्यद्रिमुखात्सुताः ।
हेरम्बगणविघ्नाभ्यामीशाश्चैकपुरोरदाः ॥ २४ ॥
मूषकेभ्यो वाहनानि गजेभ्यो वदनानि च ।
 
स्कन्दे शिखिभ्यो ध्वजाद्याः शक्तेश्च पाणिसन्निभाः ॥ २५ ॥
 
शरादग्निभ्यो भूमुख्याः क्रौञ्चाद्रेस्तारकाद् द्विषः ।
गङ्गोमाभ्यः कृत्तिकाभ्यः सुताः षट्तो मुखानि च ॥ २६ ॥
ब्रह्मण्यात्मजः पद्मेभ्यो नाभेर्भूप्रमुखास्तथा ।
सरोजेभ्योऽप्यासनानि हंसेभ्यो वाहनांनि च ॥ २७ ॥
ब्राह्म्यां ब्रह्मभ्यो नन्दिन्यो वचनेभ्योऽधिदेवताः ।
विष्णौ श्रीभ्यः पतिसमा वाद्धिभ्यः शयनादयः ॥ २८ ॥
इन्द्रेभ्योऽवरजा वैनतेयेभ्यो वाहनानि च ।"
दैत्येभ्योऽरयः पुराणात् यज्ञेभ्यः पुरुषात्पुनः ॥ २६ ॥
शाङ्गत् चक्रगदाशङ्खादेः श्रीवत्सात् भृतस्तथा ।
तार्क्ष्यभ्यो ध्वजा देवक्याः पुत्राश्चतुः पुरोभुजाः ॥ ३० ॥
गोपेभ्यः प्रभुसङ्काशाः पीतेभ्यो वसनानि च ।
कालियात् कालनेमेश्च चाणुराद्वै धेनुकान् मधोः ॥ ३१ ॥
पूतनायाः शाल्वात् कंसकेशिभ्यां यमलार्जुनात् ।
शिशुपालहयग्रीवराहुभ्य: कैटभान्मुरात् ॥ ३२ ॥
शकटेभ्यो बलिभ्यश्च द्विविदान्नरकादपि ।
 
हिरण्यकशिपोर्मेदबाणारिष्टाग्रतोऽरयः ॥ ३३ ॥
 
रुक्मिण्याः सत्यभामाया राधायाश्च प्रियादयः ।
रामे मुसलात् सीरेभ्योऽस्त्राणि तालाग्रतो ध्वजाः ॥ ३४ ॥
रोहिण्याः पुत्रा रेवत्याः प्रियाः कृष्णादितोऽग्रजाः ।
 
तथा रुक्मिप्रलम्बाभ्यां यमुनाभ्यो भिदादयः ॥ ३५ ॥
नीलेभ्यो वसनप्राया लक्ष्म्यां कृष्णादितः प्रियाः ।
पद्मेभ्यो वासाद्याः क्षीरा ब्धिभ्योऽपि पुत्रिकाः ॥ ३६ ॥
 
४७