This page has not been fully proofread.

काव्यकल्पैलतावृत्तिः
 
विनतायाः सूनवस्तु गरुडेभ्योऽग्रजाः पुनः ।
जैवातृके तु कुमुदात्कैरवादपि बान्धवः ॥ ८ ॥
शशात्कलाया श्छायाया मृगेभ्योऽपि भृदादयः ।
तारानिशाकुमुदिनीकौमुदीभ्यो द्विजाननाः ॥ ६॥
ओषध्यादक्षजायाश्च रोहिण्याश्च प्रियादयः ।
सुधाश्वेत हिमेभ्यो भा निशाभ्यो मणयः करः ॥ १० ॥
इन्द्रे सहस्रनेत्राणि शतात्तु क्रतवोऽपि च ।
वज्रेभ्यः पाणिप्रमुखाः केशवेभ्योऽग्रजाः पुनः ॥ ११ ॥
 
त्रिदिवेभ्यः स्वः पुरीभ्य: सुधर्मायाः सुरादिनः ।
पौलोमीभ्यः पूर्वदिग्भ्योऽप्सरोभ्यः पतिसन्निभाः ॥ १२ ॥
जम्भात्पाकाबलात् वृत्रात्पुलोम्नो नमुचेरपि ।
अद्रिभ्यः शासनसमा जयन्ताज्जनकादयः ॥ १३ ॥
वही धूमात् ध्वजाहव्यहविर्हुताभुगादयः ।
ज्वालाभ्यः सप्तादेर्मन्त्रजिह्वासप्तादितोऽचिषः ॥ १४ ॥
 
स्वाहाया वल्लभा और्वे वडबायाश्च वह्नयः ।
यमे दण्डादस्त्रमुखा महिषेभ्यो ध्वजादयः ॥ १५ ॥
कालिन्दीभ्यः सोदरास्तु धूमोर्णायाः प्रियादयः ।
दक्षिणशाभ्यः प्रेतेभ्यः पितुश्च पतयो मताः ॥ १६ ॥
 
सूर्येभ्योऽङ्गजा रक्षसि रजनीभ्यश्चरः पुनः ।
निकषायाः सुताः क्रव्यादेर्भुजो वरुणे पुनः ॥ १७ ॥
यादो जलेभ्यः पतयः पाशादस्त्रादयस्तथा ।
वायौ नित्येभ्यो गतिः स्यादाशुशब्दाच्च गोगतिः ॥ १८ ॥
श्रीदे शर्वेभ्यः सख्यादिस्तत्पुत्राज्जनकादयः
निधानयक्षकिन्नरधनेभ्यः स्वामिसन्निभाः ॥ १६ ॥
अलकायाश्चैत्ररथात्पुष्पकात्पतयः पुनः ।
 
शिवे त्र्यैकालेभ्यो दृशो वृषावृषभात् ध्वजाः ॥ २० ॥
दिग्भ्यो वासांसि श्यामेभ्यः कण्ठात् कालात्पुराद्गजात् ।
पूषान्धकाभ्यां कामेभ्यो मखेभ्यः प्रतिपन्थिनः ॥ २१ ॥
पशोर्गणेभ्यो भूताच्च गौरीभ्यः पतिसन्निभाः ।
शूलात् खट्वाङ्गाद् गङ्गाया भुजगेन्दुमुखादपि ॥ २२ ॥