2023-04-09 14:29:17 by ambuda-bot
This page has not been fully proofread.
चत्वारोऽत्र च्छन्दः शब्दश्लेषार्थसिद्धिनामानः
क्रमशस्तथा प्रतानाः पञ्चचतुष्पञ्चसप्तभिः स्तबकैः ॥
(का. वृ. १.१.४)
एवं कविशिक्षाविषयिकीयमपूर्वा काव्यकल्पलतावृत्तिः समग्ररूपेण कवित्व-
सम्पत्तये बहूपयुक्तास्तीति मे मतिः । एतादृशगुणगणविशिष्टा काव्यकल्पलतावृत्तिः
श्रीमता डॉ० ददन - उपाध्यायेन प्रकाशनसंस्थानस्य सहायकसम्पादकेन सरस्वतीभवन-
पुस्तकालयस्य १०२८१७ संख्यायाः हस्तलिखितपाण्डुलिप्याः सम्यग् पाठादिशोधनादि-
प्रकारेण सम्पादिता । ग्रन्थस्यास्य सम्पादनवैशिष्ट्यमतिरमणीयमिति मे प्रतिभाति ।
डॉ० उपाध्यायानां सत्प्रयासेन परिश्रमेण चायमद्भुतं ग्रन्थरत्नं प्राकाश्यं प्राप्तमिति
महान् अस्मभ्यं हर्षप्रकर्षः । एतदर्थं डॉ० उपाध्यायान् धन्यवादैराशीर्वचोभिः शुभाशंसाभिश्च
वर्धापनं प्रदाय तस्य योगक्षेमार्थं भगवन्तं साम्बं विश्वनाथं प्रार्थये ।
( २ )
ग्रन्थस्यास्य सुमनोहरप्रकाशनकर्त्रे प्रकाशनसंस्थानस्य निदेशकाय सहृदय-
धुरीणाय विश्वविद्यालयसंस्कृतिसंस्कृतगौरववर्द्धनतत्पराय डॉ० हरिश्चन्द्रमणित्रिपाठि-
महाशयाय, ईक्ष्यशोधनप्रवीणाय डॉ० हरिवंशकुमारपाण्डेयाय, ईक्ष्यशोधकाभ्यां
श्री अशोककुमारशुक्ल-भाटियोपाह्वश्रीअतुलकुमाराभ्यां प्रकाशनसहायकाय श्रीकन्हई-
सिंहकुशवाहाय पाण्डुलिपिसङ्ग्राहकसहायकाय श्रीओमप्रकाशवर्मणे प्रकाशन -
संस्थानस्य डाटा-इन्ट्री-आपरेटरपदभाजाय श्रीजितेन्द्रकुमाराय पुष्कलान्याशीर्वचांसि
सम्प्रयच्छन् सुष्ठु मनोहरमुद्रणतत्पराय विजय प्रेससञ्चालकाय श्रीगिरीशचन्द्रायापि
समुपहरामि मङ्गलान्याशीर्वचांसि ।
अन्ते ग्रन्थमिमं साम्बाय सान्नपूर्णाय श्रीविश्वनाथाय समर्प्य कामये यदयं ग्रन्थः
विदुषां छात्राणां कवित्वबुभुत्सूनाञ्चोपकाराय स्यादिति ।
वाराणसी
फाल्गुनपूर्णिमा
२०५८ तमः विक्रमाब्दः
}
राममूर्तिशर्मा
कुलपतिः
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य