2023-04-09 14:29:31 by ambuda-bot
This page has not been fully proofread.
द्वितीयप्रताने द्वितीयः स्तबकः
इत्येवं पूर्वोत्तरत्रोभयत्र च पदे परिवृत्तिः पर्यायपरिवर्तन सहन्ते क्षमन्ते
परिवृत्तिसहा ये ते जलदादयो योगादन्वयाद्भवेयुरिति यौगिकाः । गीर्वाणादयः
शब्दाः पुनः पूर्वोत्तर्वोभयत्र पदे पर्यायपरिवृत्तिमसहमाना मिश्राः । कोऽभावः
योगयुक्ताः रूढिमन्तश्च । तुल्यग्रहणात्कृतान्तदशरथप्रभृतयः ।
। इति श्रीजिनदत्त सूरिशिष्यपण्डित
श्रीमदमरचन्द्रविरचितायां
काव्यकल्पलतावृत्तौ शब्दसिद्धिप्रताने द्वितीये रूढयौगिक
मिश्राख्यः प्रथमः स्तबकः ॥ १ ॥
अथ द्वितीयप्रताने द्वितीयः स्तबकः
॥ अथ योगार्हनामानि ॥
भवन्ति योगिकाः शब्दाः समासव्यासहेतवः ।
तद्योगार्हाणि नामानि त्यपि प्रतिपादये ॥ १ ॥
उद्देशवचनं पूर्वं सप्तम्यन्तमिहोदितम् ।
पञ्चम्यन्तं पूर्वपदं प्रथमान्तं पुरः पदम् ॥ २ ॥
शब्दः स एक एवात्र स्यांदेकवचनात्कृतात् ।
बहवो बहुवचनान्मुख्याद्यादेस्तदर्थकाः ॥ ३ ।
स्वर्गे सुरेभ्यो गेहानि देवे द्युभ्यः सदादयः ।
स्वाहास्वधाभ्याञ्च सुधा क्रतुभ्योऽपि भुगादयः ॥ ४ ॥
दैत्येभ्योऽरयोऽर्के सहस्रात् स्वरप्रभृतेरपि ।
उष्णेभ्यश्चांशवश्चक्राश्च दिनेभ्योऽपि बान्धवः ॥ ५ ॥
ध्वान्तेभ्यो रिपवो गोधुपद्मिनीभ्यो ग्रहादिना ।
प्रभाविभाभासोदिवादिना दिवसात्करः ॥ ६ ॥
नभोदिनेभ्यो रत्नानि गगनेभ्योऽध्वजाऽध्वगाः ।
सप्तादेरवाऽरुणेऽर्केभ्यः सारथयस्तथा ॥ ७ ॥