This page has not been fully proofread.

Pak d
 
*
 
काव्यकल्पलतावृत्तिः
 
व्यक्तचिह्नाति जातिशब्दोऽपि व्यक्तिवाचकः ।
यथाऽगस्तिनिवासा दिक् दक्षिणाशा प्रकीते ॥ १५ ॥
 
व्यक्तं नि सन्देहं यच्चिह्नं विशेषणं तेन चिह्नितो जात्यभिप्रायकोsपि
शब्दो व्यक्तेर्वाचको भवति । व्यक्तेर्नामतां यातीत्यर्थः । यथाऽगस्तेर्मु निविशेषस्य
निवासो यस्यां सा इति व्यक्तं निस्सन्देहं चिह्नं तेन चिह्निता दिगिति ।
जातिशब्दो दक्षिणाशाया व्यक्तेरभिवायी भवति । एवं सप्तर्षिपूता दिगुत्तराशा
अत्रेर्नयनसमुत्थं ज्योतिश्चन्द्र इत्यादयोऽपि । व्युत्पत्त्यन्तरमाह-
शब्दौ त्रिपञ्चसप्तादिवाचकौ विषमायुजौ ।
 
योजयेत् त्रिनेत्रपञ्चशरसप्तच्छदादिषु ॥ १६ ॥
 
त्रिपश्वसप्तादिस्थाने विषमे अयुक्शब्दौ त्रिनेत्रादिपदेषु योजनीयो ।
यथा । त्रिनेत्रो विषमनेत्रोऽयुग्नेत्रश्च शम्भुः । पञ्चशरो विषमशरोऽयुक्शरश्च काम ।
सप्तच्छदो विषमच्छदोऽयुक्च्छदश्च सप्तपर्ण: । व्युत्पत्त्यन्तरमाह-
इतरान्तो नञपूर्वो गुणशब्दोऽथं विरोधिनं वक्ति ।
 
यद्वत् सितेतरोऽसित एवं प्रतिपद्यते कृष्णः ॥ १७ ॥
गुणवाची शब्द इतरशब्दान्तो नञ् पूर्वश्च विरोधिनमर्थमभिधत्ते । यथा
सितेत रोऽसितश्च कृष्श एवं कृशेतरोऽकृशश्च स्थूल इत्यादि । व्युत्पत्त्यन्तरमाह-
जलदादिषु पूर्वपदे सरोजमुख्येषु चोत्तरपदेषु ।
 
सुरपतिसमेषु चोभयपदेषु पर्यायपरिवृत्तिः ॥ १८ ॥
 
--
 
जलदादिषु शब्देषु पूर्वस्मिन्नेव पदे पर्यायपरिवर्तनम् । यथा जलदस्तोयदो
नीरदः । आदिग्रहणात् जलधिस्तोयधिर्नीरधिरित्यादि । सरोजमुख्येषु शब्देषु
उत्तरस्मिन्नेव पदे पर्थ्यायपरिवर्तनं यथा सरोजं सरोरुहं मुख्य शब्दाद्वडवाग्नि-
वडवानलो वडबावह्रिरित्यादि । सुरपतिसदृशेषु पूर्वोत्तरपदेषु पर्यायपरिवर्तनम्,
यथा -- सुरपतिः देवराज: त्रिदशेश्वर : समशब्दाभूपतिर्महीपतिः भूभुक् महीं-
भुगित्यादि ।
 
इति परिवृत्तिसहा ये योगात्ते यौगिकाः शब्दाः ।
परिवृत्त्यसहा ये ते मिश्रा गोर्वाणतुल्यास्तु ॥ १९॥