This page has not been fully proofread.

द्वितोयप्रताने प्रथमः स्तबकः
 
वध्याद् भिजिद्घातिद्वेषिघुवंसिशासनविपक्षाः ।
अप्यन्तकारिसूदनदर्पच्छिद्दमनवारिमथनाद्याः ॥ ११ ॥
 
वध्यो धात्यस्तद्वाचिन: शब्दात् परे भिदादयः अन्तकादयोऽपि तद्वतां
वधकानान्नामाहुः । यथा । पुरभित् पुरजित् पुरघातो पुरद्वेषो पुरधुक् पुरध्वंसी
पुरशासन: पुरविपक्ष: पुरान्तकारी पुरसूदनः पुरदर्पच्छित् पुरदमनः पुरदारी
पुरमथनः शिवः तस्य हि पुरो वध्य इति रूढिः । आदिशब्दात् पुरनिहन्ता
पुरकेतुः पुरहा पुरान्तकः पुरजयीति । वध्य इति वधार्हमात्रेऽपि । तेन कालिय-
कालियारि: कालियशासनो विष्णुरित्यादयोऽपि गृह्यन्ते ।
 
दमनः
 
कवि-
रूढयेत्येव । तेन कालियदमनादिवत् कालियघातीति न भवति । उक्ताः स्व-
स्वामित्वादयः सम्बन्धभेदास्ते च यथा भिन्नद्रव्याश्रयास्तथैकद्रव्याश्रया अपि
भवन्तीति दर्शयितुमाह -
 
सम्बन्धोऽपि विवक्षात इति पदावेकतोऽपि संयोज्याः ।
 
चित्याद्विबुधैः
 
प्रागवशतसम्बन्धिशब्दास्ते ॥ १२ ॥
 
विवक्षानिबन्धनो हि सम्बन्धस्तत एकस्मादपि वृषादेः सम्बन्धिपदात् परे
सम्बन्धान्तरनिबन्धना वाहनादयः शब्दा यथोचित्यं प्रयुज्यन्ते एतदेवाह-
वृषस्य सति बाह्यत्वे शङ्करो वृषवाहनः ।
 
धार्यत्वे तु वृषाङ्कोऽयं स्वत्वे वृषपतिस्तु सः ॥ १३ ॥
धार्यत्वेशोरंशुमाली सत्त्वे तु रविरंशुमान् ।
 
अहेवंध्यत्वेऽहि रिपुर्भोज्यत्वे बहिणोऽहिभुक् ॥ १४ ॥
 
४३
 
वाह्यवाहकभावसम्बन्धविवक्षायां यथा वृषवाहनो रुद्र इति भवति तथा
धार्यधारकभाव सम्बन्धविवक्षायां वृषलाच्छनः स्वस्वामिभाव सम्बन्धविवक्षायां
वृषपतिरित्यपि । तथा धार्यधारकभावसम्बन्धविवक्षायां यथा अंशुमाली
रविरिति भवति । तथा स्वस्वामिभावसम्बन्धविवक्षायां अंशुपति: अंशुमा-
नित्यपि । तथा बध्यबधकभावसम्बन्धे यथा अहिरिपुर्मयूरस्तथा भोज्यभोजक-
भावसम्बन्धे अहिभुगित्यपि भवति । सम्बन्धनिबन्धनां व्युत्पत्तिमुक्ता । व्युत्पत्त्य -
 
न्तरमाह -