2023-04-09 14:29:31 by ambuda-bot
This page has not been fully proofread.
४३
काव्यकल्पलतावृत्तिः
रूढयेत्येव । न हि यथा गौरीवरः शिवः तथा गङ्गावर इति । सख्युः सम्बन्धे,
यथा-
—
सख्युः सखिप्रभृतयः-
सखिवाचकाच्छब्दात्परे सखिसमानार्थास्तद्वतां सखिवतां नामाहुः । यथा-
श्रीकण्ठस्य सखा श्रीकण्ठसखः कुबेर: । मधुसखः कामः । प्रभृतिग्रहणात्सुहृदादयो
गृह्यन्ते । कविरूढथेत्येव । न हि भवति यथा श्रीकण्ठसखो धनदस्तथा धनदसखः
श्रीकण्ठ इति । बाह्यवाहकसम्बन्धे, यथा-
वाह्याद्यानासनप्रायाः ।
वाह्यवाचिन: शब्दात् परे यानादयस्तद्वतां वाह्यवतां वाहयितॄणां
नामाहुः । यथा - वृषयान: वृषासन: शम्भुः । तस्य हि वृषो यानमिति रूढिः ।
प्रायशब्दात् वृषगामी वृषवाहन इत्यादयोऽपि । कविरूढयेत्येव । नहि भवति
यथा नरवाहनः कुबेरः तथा नरगामी नरयान इत्यादि ।
ज्ञातेयसम्बन्धे यथा-
• ज्ञातेः स्वसूदुहित्रात्मजाग्रजावरजसङ्काशाः ॥ ९ ॥
-
ज्ञाति: स्वजनस्तद्वाचिन: शब्दात्परे स्वत्रादयस्तद्वतां ज्ञातेयवतां ज्ञातीनां
नामाहुः । स्वस्रादीनां ज्ञातिविशेषवाचित्वात् ज्ञातिविशेषादेव प्रयोगो, यथा-
यमस्वसा यमुना । हिमवद्दुहिता गौरी । चन्द्रात्मजो बुधः । गदाग्रज, इन्द्रा-
वरजश्व विष्णुः । यमादयो हि यमुनादीनां प्रात्रादिज्ञातय इति रूढिः । सङ्काश-
शब्दात् सोदरादयो गृह्यन्ते । यथा - कालिन्दीसोदरो यमः । कविरूढयेत्येव ।
न हि भवति यथा यमुना यमस्वसा तथा शनिस्वसापि । आश्रयाश्रयिभावसम्बन्धे
यथा-
I
आश्रयतः सदनाख्याः सहासिशयप्रकाराच ॥ १० ॥
आश्रयो निबासः तद्वाचिन: शब्दात् परतः सदननामानि तथा सदना-
'दयस्तद्वतां आश्रयवतां आश्रितानां नामाहुः । यथा । घुसदना युसझानो
देवाः। दिवौकसः । दिवशब्दोऽकारान्तोप्यस्ति इति । धुवसतयः दिवाश्रयाः
सद: चुनिवासिनः द्युशया देवा: । द्यौः स्वर्ग: स च तेषामाश्रय इति रूढिः ।
कवियेत्येव । न हि भवति, यथा 'द्युसमानस्तथा भूमिसमानो मनुष्या इति ।
वध्यवधकभावसम्बन्धे यथा -