This page has not been fully proofread.

द्वितीयप्रताने प्रथमः स्तबक:
 
धार्यात् ध्वजास्त्रपाण्यकुमौलिभृम्मण्डनसमानाः ॥ ६ ॥
धरभर्तृमालिमत्वर्थशालिशेखरसवृक्षाइच ॥
 
4
 
धार्यवाचकात्परे ध्वजादयः शेखरान्ता धारकस्य नामाहुः । यथा—
वृषध्वजः शूलास्त्र: पिनाकपाणिः वृषाङ्कः चन्द्रमौलिः शूलभृत् शशिमण्डनः ।
• समानग्रहणात्मदृशार्थास्तत्सदृशार्थाः वृषकेतनः शूलायुधः वृषलक्ष्मा चन्द्रशिराः
चन्द्रभूषणः चन्द्राभरणादयो गृह्यन्ते । यथा गङ्गाधरः पिनाकभर्ता पिनाकमाली ।
पिनाकं मालते धारयतीति कृतत्वाच्छूली पिनाकशाली शशिशेखरः । कवि-
रूढयेत्येव । तेन सत्यपि धार्यधारकसम्बन्धे न सर्वेभ्यो धार्येभ्यो ध्वजाद्यर्थाः
शब्दा: प्रयोज्याः । न हि भवति वृषध्वजवच्छूलध्वजः शूलास्त्रवत् चन्द्रास्त्र:
पिनाकपाणिवदहिपाणि: । वृषाङ्कवच्चन्द्राङ्कः । चन्द्रमौलिवद्गङ्गामौलिः ।
• शशिमण्डनवत् चन्द्रमण्डनः । गङ्गाधरवच्चन्द्रधरः । पिनाकभर्तृवच्चन्द्रभर्ता ।
पिनाकमालिवत्सर्पमाली । शूलिवच्छूलबान् । शूलशालिवत् चन्द्रशाली । चन्द्र-
शेखरवद्गङ्गाशेखर इति । भोज्यभोजकभावसम्बन्धे, यथा-
-
 
i
 
भोज्या इग्लिट् पाय्यन्धोव्रतप्राशाशनप्रमुखाः ॥ ७॥
 
भोज्यं भक्ष्यं तद्वाचिनः शब्दात्परे भुगादयः शब्दास्तद्वतां भोज्यवतां
भोक्तृणां नामाहुः । यथा । अमृतभुजोऽमृतलिहोऽमृतपायिनः अमृतान्धसः अमृत-
'व्रताः अमृतपा: अमृताशा: अमृताशना देवास्तेषां ह्यमृतं भोज्यमिति रूढिः ।
प्रमुखशब्दस्तत्समानार्थभोजनादिशब्दपरिग्रहाय । कविरूढत्येव ।
यथाऽमृतभुजस्तथाऽमृतवल्लभा इति भवति । पतिकलत्रभावसम्बन्धे, यथा-
पत्युः कान्ता दयिता वधूः प्रणयिनी प्रियाऽङ्गना तुल्याः ।
 
न हिं
 
पत्न्याः
 
प्रणयिप्रियवररमणप्राणेश्वरेशसमाः ॥ ८॥
 
पतिर्यरयिता तद्वाचकाच्छब्दात्परे कान्तादिसदृशाः शब्दास्तद्वतीनां पति-
मतीनां भार्याणां नामाहुः । यथा - शिवकान्ता शिबदयिता शिववधूः शिव-

प्रणयिनी शिवप्रिया शिवाङ्गना गौरी तस्या हि शिवः पतिरिति रूढिः ।
तुल्यग्रहणाद्रमणी वल्लभाप्रभृतयो गृह्यन्ते । कविरूढयेत्येव । न हि भवति
यथा शिवकान्ता तथा शिवपरिग्रह इति । तथा पत्नीवाचकाच्छब्दात्परे प्रणय-
प्रमुखा: शब्दास्तद्वतां कलत्रवतां वरयित्तॄणां नामाहुः । यथा - गौरीप्रणयी
गौरीप्रियः गौरीवरः गौरीरमणः गौरीप्राणेश्वर गौरीश: शिवस्तस्य हि गौरी-
कलत्रमिति रूढिः । समशब्दात्ममानार्थाः पत्यादिशब्दा गृह्यन्ते । कवि
का० -- ६