This page has not been fully proofread.

काव्यकल्पलतावृत्तिः
 
स्वमात्मीयं स्वामी यस्तत्र प्रभविष्णुस्तयोर्भावः स्वस्वामित्वं तदादिः
सम्बन्ध: । आदिशब्दाज्जन्य जनकभावादिसम्बन्धः । तत्र स्वस्वामिभावसम्बन्धे
वेतृप्रमुखाः शब्दाः स्वात्परे नियोजितास्तद्वतां स्वामिनां नामाहुः । मत्वर्थक इति ।
मतुस्तद्धितस्तस्यार्थोऽस्त्यर्थविशिष्ट प्रकृत्यर्थेन सह देवदत्तादे: सम्बन्धस्तदाधारो
वा तदस्यास्त्यस्मिन्निति मतुष्प्रत्ययविधानात् मतोरर्थो यस्य मत्वर्थकस्तद्धितो
मतुना समानार्थ इत्यर्थः । स च इजणिकादिः । न केवलं मत्वर्थक एव मत्वर्था -
व्यभिचारात् मतुरपि । आदिशब्दात्पादयोऽपि । तत्राहुर्नामतद्वतामित्युत्तरेष्वप्यनु-
वर्तनीयम् । क्रमेणोदाहरणमाह -
 
४०
 
भूनेता भूपतिर्भूभुक् भूपालो भूधनस्तथा ॥ ४ ॥
भूमांश्चेति कवे रूढया ज्ञेयोवाहरणावली ।
 
इतिशब्द: प्रकारार्थंस्तेन भूपादयोऽपि । कवीनां रूढि: परम्परायाता
प्रसिद्धिस्तयान तु कविरूढ्यतिक्रमेण यथा कपालीत्यादौ सत्यपि स्वस्वामि-
भावसम्बन्धे कपाली मत्वर्थीयान्त एव भवति । न तु कपालपाल: कपालधनः
कपालभुक् कपालनेता कपाल पतिरित्यादि । जन्यजनकभावसम्बन्धे यथा-
जन्याद्विघात कर सुष्कृत्कर्तृत्रष्टुसृड्जनकमुख्याः ॥ ५॥
जनका द्योनिजजनिभूसम्भव रुह सत्यणाद्यास्तु ।
 
जन्यात्कार्यात्परे विधातृप्रभृतयस्तद्वतां जनकानां कारणानां नामाहुः ।
 
यथा-
-
 
विश्वविधाता विश्वकरः विश्वसूविश्वकृत् विश्वकर्ता विश्वस्रष्टा विश्वसृट्
विश्वजनको ब्रह्मा तस्य हि जन्यं विश्वमिति रूढिः । मुख्यशब्द आद्यर्थस्न
विश्वकारक इत्याद्यपि । कविरूढिरित्येव । न हि यथा चित्रकृदुच्यते तथा
चित्रसूरिति । तथा जनकात्परे योन्यादयः शब्दास्तद्वतां कारणवतां कार्याणां
नामाहुः । यथा—
 
आत्मयोनिः, आत्मजः, आत्मजनिः, आत्मभूः, आत्मसम्भवः, आत्मरुहः,
आत्मसूतिर्ब्रह्मा तस्य हि आत्मा कारणमिति रूढिः । वक्ष्यमाणस्याद्यशब्दस्याभि-
सम्बन्धादात्यजन्मादयोऽपि । अणादयस्तु भृगोरपत्यं भार्गवः । दितेरपत्यं दैत्यः ।
वत्सस्यापत्यं वात्स्यान इत्यादि ।
 
अत्रापि हि भार्गवादीनां भृग्वादयो जनका इति रूढिः । कविरूढघेत्येव ।
न ह्यात्मयोनिवदात्मजनक आत्मकारक इति भवेत् । धार्यधारकभावसम्बन्धे
यथा-