2023-04-09 14:29:29 by ambuda-bot
This page has not been fully proofread.
अथ द्वितीयप्रताने प्रथमः स्तबकः
॥ अथ शब्दसिद्धिप्रतानः ॥
तत्र पूर्वं रूढयौगिकमिश्रशब्दाख्यानम् । यथा -
रूढयौगिकमिश्राख्यास्त्रिधा शब्दाः प्रकीर्तिताः ।
व्युत्पत्तिवर्जिता रूढाः शब्दा आखण्डलादयः ॥ १ ॥
प्रकृतिप्रत्ययविभागेनार्थं रहिता ब्युत्पत्तिवर्जिताः शब्दा इत्यनुवाद्यनिर्देशः ।
रूढा इति विधेयपदम् । आखण्डलादय इत्युदाहरणम् ।
न ह्यत्र प्रकृतिप्रत्ययविभागेन व्युत्पत्तिरस्ति । आदिशब्दात् मण्डपादयः ।
यद्यपि "नाम च धातुज " मिति शाकटायनमतेन रूढा अपि व्युत्पत्तिभाजस्तथापि
वर्णानुपूर्व्यनुज्ञानमात्रप्रयोजना तेषां व्युत्पत्तिर्न पुनरन्वर्थोऽर्थप्रवृत्ती कारणमिति
रूढा अव्युत्पन्ना एव ।
यौगिकान् शब्दान् व्याचष्टे ।
योगो गुणेन क्रियया सम्बन्धेन कृतोऽन्वयः ।
शब्दानां परस्परमर्थानुगमनमन्वयः संयोगः । गुणक्रियाकृतयोगेन यौगिका-
नामुदाहरणम् ।
गुणाः स्युर्नीलपीतादिनीलकण्ठादयस्ततः ॥ २ ॥
ततो गुणतो गुणनिबन्धनो येषां योगस्ते शब्दा नीलकण्ठाद्याः नीलः
कण्ठोऽस्येति गुणप्राधान्यान्नीलकण्ठः शङ्करः । आदिशब्दाच्छितिकण्ठः कालकण्ठ
इत्यादि । संख्यापि गुण एवेति वैशेषिकमते पञ्चबाणषण्मुखाष्टश्रवोदशमुखा-
दयः । ततः कारणात्पश्चबाणादयोऽपि गुणनिबन्धनयोगाः ।
क्रियाः करोतिप्रमुखास्ततः स्रष्टृक्रिया मताः ।
ततः क्रियातः क्रियानिबन्धनो योगो येषां ते स्रष्टृप्रभृतयः । सृजतीति
सर्जन प्राधान्यात् स्रष्टा ब्रह्मा । एवं धातेत्यादयः ।
सम्बन्धं व्याचष्टे ।
सम्बन्ध: स्वस्वामित्वादिस्त त्राहुर्नाम तद्वताम् ॥ ३ ॥
स्वान्नेतृपतिभुक्पालधनमत्स्वर्थकादयः ।