This page has not been fully proofread.

३६
 
काव्यकल्पलतावृत्तिः
 
विरहे तापनिश्वासचिन्ता मौनं कृशाङ्गता ।
अब्जशय्या निशादैघ्यं जागर: शिशिरोष्मता ॥ ४३ ॥
 
स्वयंवरे शचीरक्षा मञ्चमण्डपसज्जता ।
राजपुत्री नृपाकारान्वयचेष्टाप्रकाशनम् ॥ ४४ ॥
 
सुरापाने विकलता स्खलनं वचने गतौ ।
लज्जा मानच्युतिः प्रेमाधिक्यं रक्तेक्षणभ्रमाः ॥ ४५ ॥
 
पुष्पावचये पुष्पावचयः पुष्पार्पणार्थंने दयिते ।
मानाद्यं गोत्रस्खलनेर्ष्या वक्रोक्तिसम्भ्रमाश्लेषाः ॥ ४६ ॥
 
जलकेली सरः क्षोभश्चक्रहंसापसर्पणम् ।
पद्मग्लानिपयोविन्दुदृग्रामा भूषणच्युतिः ॥ ४७ ॥
सुरते सात्त्विका भावाः सीत्कार: कुड्मलाक्षता ।
काञ्ची कङ्कणमञ्जीररवोऽधरमखक्षते ॥ ४८ ॥
वर्णेषु वर्ण्यभावानां दिङ्मात्रमिति कीर्तितम् ।
चिद्रूपैश्चिन्त्यमानानां भवत्येषामनन्तता ॥ ४६ ॥
 
असतोऽपि निबन्धेनानिबन्धेन सतोऽपि च ।
नियमेन च जात्यादेः कवीनां समयस्त्रिधा ॥ ५० ॥
 
असतोऽपि निबन्धो यथा-
रत्नादि यत्र तत्रादौ हंसाद्यल्पजलाशये ।
जलेभाद्यं नभोनद्यामम्भोजाद्यं नदीष्वपि ॥ ५१ ॥
तिमिरस्य तथा मुष्टिग्राह्यं सूचीविभेद्यताम् ।
अञ्जलिग्राह्यता कुम्भोपवाह्यत्वेविधुत्विषः ॥ ५२ ॥
शुक्लत्वं कोतिहासादी काष्ण्यं दुष्कीत्यंघादिषु ।
॥ ॥ प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः ॥ ५३ ॥
 
विभावय भिन्नतटाश्रयणं चक्रवाकयोः ।
ज्योत्स्नापानं चकोराणां वणयेदसदप्यदः ॥ ५४ ॥
 
चतुभिः कलापकम् । सतोऽप्यनिबन्धो यथा—
 
वसन्ते मालतीपुष्पं फलं पुष्पं च चन्दने ।
अशोके च फलं ज्योत्स्नाध्वान्ते कृष्णान्यपक्षयोः ॥ ५५ ॥