This page has not been fully proofread.

प्रस्तावना
 
अस्ति महतो हर्षप्रकर्षस्य विषयोऽयं यच्छ्रीमदमरचन्द्रयतिना विरचिता काव्य-
कल्पलतावृत्तिरमरत्वं प्राप्ता सहृदयहृदयान्तर्वर्त्तिलोकोत्तरवर्णनालक्षणकाव्यबीजं भाव-
यन्ती प्ररोहयन्ती विकाशयन्ती कविकुलकुमुदानि उद्भेदयन्ती पूर्णचन्द्रिकेव विराजमाना
विश्वविद्यालयादस्मात् प्रकाशतां प्राप्ता । तेनारिसिंहस्य कवितारहस्यात् कानिचित् सूत्राण्या-
दाय आत्मकृतं किञ्चित् सूत्रं संयोज्य वृत्त्यात्मकोऽयं ग्रन्थोः लिखितः । यथा तेनैवोद्-
घुष्टम्-
सारस्वतामृतमहार्णवपूर्णिमेन्दो-
र्मत्वाऽरिसिंहसुकवेः कवितारहस्यम् ।
किञ्चिच्च तद्रचितमात्मकृतं च किञ्चिद्
 
व्याख्यायते त्वरितकाव्यकृतेऽत्र सूत्रम् ॥
 
-
 
(का. वृ. १.१.२)
 
अरिसिंहामरचन्द्रयोरप्येक एव गुरुः श्रीजिनदत्तसूरिः । श्रीमदमरचन्द्रयतिः
संन्यासी आसीदिति नामघटकीभूतयतिशब्देन प्रकाश्यते । एतस्मादेव कारणात् तेन
स्वजन्मवंशस्योल्लेखः कोऽपि न कृतः स्वग्रन्थे ; किन्तु काव्यरूपैतत्प्रबन्धप्रदर्शनेना-
संन्यस्तकर्मेति विज्ञायते । भवतु असंन्यस्तो यतिशब्दाभिधेयो भविष्यतीति नात्र विषये
विशेषो विज्ञायते । गुर्जरप्रदेशस्य ढोलकराज्यस्य राणाधीरधवलस्याप्तसचिवस्य वस्तु-
पालस्य समकालीनत्वादस्यामरचन्द्रस्य कालः त्रयोदशशतकस्य मध्यभागे निश्चीयते ।
 
काव्यकल्पलतावृत्त्यतिरिक्ताः छन्दोरत्नावली-काव्यकल्पलतापरिमल-अलङ्कारप्रबोधा-
दयोऽनेके ग्रन्था अस्य प्रथन्ते । संस्कृतसाहित्यशास्त्रस्याचार्याः काव्यस्य व्यावहारिंकी
शिक्षां प्रदाय श्लाघनीयं रमणीयं प्रयत्नमकुर्वन् । एतद्विषयकाः ग्रन्थाः कविशिक्षाया
नाम्ना विदिताः सन्ति । कविशिक्षाया आचार्या: राजशेखर:-क्षेमेन्द्रः - अरिसिंह:-
अमरचन्द्रयति-देवेश्वरादिकाश्च प्रथितयशसः सन्ति साहित्यशास्त्रजगति ।
 
अतिप्राचीनकाले साहित्यशास्त्रमिदं क्रियाकल्पनाम्ना व्यवह्रियते स्म । अत्र
क्रियया काव्यग्रन्थाः, कल्पेन च विधानमभिप्रेतम्, तेन क्रियाकल्पशब्देन काव्यकरण-
विधिः संसूच्यते । काव्यकरणविधिप्रतिपादकग्रन्थे लतात्वमारोप्य काव्यकल्पलतेति
नामकरणं कृतम् । लताधर्मत्वात् प्रतानस्तबकावारोप्य विभागः कृतः । तेन काव्यकल्प-
लतायां चत्वारः प्रतानाः सन्ति । प्रथमे प्रताने छन्दः सिद्धिः वर्णिता, द्वितीये शब्दसिद्धिः
ध्यातव्या, तृतीये श्लेषसिद्धिः, यत्र श्लेषस्य प्रपञ्चः, चतुर्थे चार्थसिद्धिः । प्रत्येकस्मिन्
प्रताने अनेके स्तबकाः सन्ति । तेषां संख्या क्रमशः पञ्चभिः, चतुर्भिः पञ्चभिः,
सप्तभिश्च स्तबकैर्विस्तीर्णा । यथा तेनैव प्रतिपादितम्-
"