This page has not been fully proofread.

प्रथमप्रताने पञ्चमः स्तबंक:
 
दूते स्वस्वामितेजः श्रीविक्रमौन्नत्यकृद्वचः ।
शत्रुक्षोभकरी चेष्टा धाष्टयं दाक्ष्यमभीरुता ॥ २६ ॥
युद्धे तु वर्मबलवीररजांसि तुर्य-
विश्वासनादशरमण्डपरक्तनद्यः ।
 
छिन्नातपत्ररथचामरकेतुकुम्भी
 
मुक्तासुरीवृतभटामरपुष्पवर्षाः ॥ ३० ॥
 
प्रयाणे भेरिनिस्वानभूकम्पबलधूलयः ।
करभोऽक्षध्वजच्छत्रवणिक्शकटवेसराः ॥ ३१ ॥
मृगयायां श्वसञ्चारो वागुरा नीलवेषता ।
भटढक्का मृगवासः सिंहयुद्धं त्वरागतिः ॥ ३२ ॥
अश्वे खरखुरोत्खातरजः सल्लक्षणस्थितिः ।
गतिवेगवती वक्रमास्यं धाराप्रपञ्चनम् ॥ ३३ ॥
गजे सहस्रयोधित्वमुच्चत्वङ्कर्णचापलम् ।
अरिव्यूह विभेदित्व कुम्भमुक्तामदालिनः ॥ ३४ ॥
सुरभी दोला कोकिलमारुतसूर्यगतितरुदलोद्भेदाः ।
जातीतरपुष्पचयाश्रमञ्जरीभ्रमरझङ्काराः ॥ ३५ ॥
ग्रीष्मे पाटलमल्लीतापसरः पथिकशोषवाताल्यः ।
सक्तु प्रपा प्रपास्त्री मृगतृष्णाम्रादिफलपाकाः ॥ ३६ ॥
वर्षासु घनशिखिस्मय
हंसगमाः पङ्ककन्दलोद्भेदौ ।
जाती कदम्ब केत कझञ्झानिलनिम्नगा हलिप्रीतिः ॥ ३७ ॥
 
शरदीन्दुरविपटुत्वं जलाच्छताऽगस्तिहंसवृषदर्पाः ।
सप्तच्छदपद्मसिताभ्रधान्यशिखिपक्षमदपाताः ॥ ३८ ॥
हेमन्ते दिनलघुता शीतयवस्तम्ब मरुव कहिमानि ।
शिशिरे शिरीषघूमाहिकुन्दाम्बुजदाहशिखिरतोत्कर्षाः ॥ ३८ ॥
सूर्येऽरुणता रविमणिचक्राम्बुज पथिकलोचनप्रीतिः ।
तारेन्दुदीप कौषधिधूकतमश्चौरकुमुदकुलरातिः ॥ ४० ॥
चन्द्रे कुलटाचक्राम्बुजमानविरहितमोहानिरौज्ज्वल्यम् ।
जलधिजननेत्र कैरवच कोरचन्द्राश्मदम्पतिप्रीतिः ॥ ४१ ॥
विवाहे स्नानशुभ्राङ्गभूषोलूलत्रयीरवाः ।
बेदोसोमन्ततारेक्षालाजामङ्गलवर्तनम्
 
॥ ४२ ॥