This page has not been fully proofread.

३४
 
काव्यकल्पलतावृत्तिः
 
वेणीधम्मिल्लसीमन्तभालश्रवणनासिका ।
कपोलाधरनेत्रप्रकटाक्षदशनोक्तयः ॥ १४ ॥
 
॥ २० ॥
 
कण्ठबाहुकरोरोजनाभ्यो मध्यं वलित्रयम् ।
रोमालिश्रोणिजङ्गोरुगतिक्रमनखाः क्रमात् ॥ १५ ॥
कुमारे शस्त्रशास्त्रश्रीकलावलगुणोच्छ्रयाः ।
बाह्वाली खुरली राजभक्तिः सुभगतादयः ॥ १६ ॥
सेनापतौ महोत्साहः स्वामिभक्तिः सुधीरभीः ।
अभ्यासो वाहने शास्त्रे शस्त्रे च विजयो रणे ॥ १७ ॥
देशे बहुखनिद्रव्यपण्यधान्याकरोद्भवाः ।
दुर्गग्रामजनाधिक्यनदीमातृकतादयः ॥ १८ ॥
ग्रामे धान्यलतावृक्षसरसीपशुपुष्टयः ।
क्षेत्रारघट्टकेदार ग्रामेयीमुग्धविभ्रमाः ॥ १६ ॥
पुरेऽट्टपरिखाव प्रप्रतोलीतोरणालयाः ।
प्रासादाध्वप्रपारामवापीवेश्यासतीत्वरी
सरस्यम्भोलहर्यम्भोगजाद्यम्बुजषट्पदाः ।
हंसचक्रादयस्तीरोद्यानस्त्रीपान्थकेलयः ॥ २१ ॥
अब्धौ द्वीपाद्रिरत्नोमिपोतयादोजगत्प्लवाः ।
विष्णुकुल्यागमश्चन्द्राद्वृद्धिरौर्वोऽब्दपूरणम् ॥ २२ ॥
सरित्यम्बुधियायित्वं वीच्यो जलगजादयः ।
पद्मानि षट्पदा हंसचक्राद्याः कूलशाखिनः ॥ २३ ॥
उद्याने सरणिः सर्वफलपुष्पलताद्रुमाः ।
पिकालिकेकिहंसाद्याः क्रोडावाप्यध्वगस्थितिः ॥ २४ ॥
शंले मेघौषधीधातुवंशकिन्नरनिर्झराः ।
शृङ्गपादगुहारत्नवनजीवाध्युपत्यका ॥ २५ ॥
अरण्येऽहिवराहेभयूथसिंहादयो द्रुमाः ।
काकोलूककपोताद्या भिल्लमल्लदवाद्रयः ॥ २६ ॥
आश्रमेऽतिथिपूजैणविश्वासो हिंस्रशान्तता ।
यज्ञधूमो मुनिसुता दुसेको वल्कलद्रुमाः ॥ २७ ॥
मन्त्रे पञ्चाङ्गता शक्तिः षाड्गुण्योपायसिद्धयः ।
उदयाश्चिन्तनीयाश्च स्थैयौन्नत्यादिसूक्तयः ॥ २८ ॥
 
१. शस्त्र शिक्षणशाली खुरली ।