2023-04-09 14:29:29 by ambuda-bot
This page has not been fully proofread.
प्रथमप्रताने पञ्चमः स्तबकः
अथ प्रथमप्रताने पञ्चमस्तबकः
अथ वर्ण्यानि कथ्यन्ते तानि यानि कवीश्वरैः ।
महाकाव्यप्रभृतिषु प्रबन्धेषु बबन्धिरे ॥ १ ॥
राजाऽमात्यपुरोहितौ नृपवधू राजाङ्गजः सैन्यपो
देशग्रामपुरीसरोऽब्धिसरिदुद्यानान्यरण्याश्रमाः ।
मन्त्रो दूतरणप्रयाणमृगयाश्वेभत्विनेन्दूदया
वीवाहो विरहः स्वयंवरसुरापुष्पाम्बुखेला रतम् ॥ २ ॥
॥ ४ ॥
नृपे विद्या नयः शक्तिर्बलं तस्करताक्षयः ।
प्रजाशास्तिः प्रजारागो धर्मकामार्थंतुल्यता ॥ ३ ॥
प्रयाणरणखड्गादिशास्त्राण्यरिपराजयः ।
अरिनाशोऽरिशैलादिवासोऽरिपुरशून्यता
महः श्रीदान कीर्त्याद्या गुणौघा रूपवर्णनम् ।
मानवा मौलितो वर्ण्या देवाश्चरणतः पुनः ॥ ५ ॥
महामात्ये नयः शास्त्रं स्थैयं बुद्धिगंभीरता ।
शक्तिः शस्त्रमलोभत्वं जनरागो विवेकिता ॥ ६ ॥
मन्त्रो भक्तो महोत्साहः कृतज्ञो धार्मिकः शुचिः ।
अकर्कश: कुलीनश्च स्मृतिज्ञः सत्यभाषकः ॥ ७ ॥
विनीतः स्थूललक्षश्चाव्यसनो वृद्धसेवकः ।
अक्षुद्रः सत्त्वसम्पन्नः प्राज्ञः शूरोऽचिरक्रियः ॥ ८॥
राज्ञा परीक्षितः सर्वोपधासु निजदेशजः ।
राजार्थस्वार्थ लोकार्थकारको निस्पृहः शमी ॥६॥
अमोघवचनः कल्प: पालिताशेषदर्शनः ।
पात्रौचित्येन सर्वत्र नियोजितपदक्रमः ॥ १० ॥
आन्वीक्षिकीत्रयीवार्तादण्डनीतिकृतश्रमः ।
क्रमागतो वणिकपुत्रो भवेद्राज्यविवृद्धये ॥ ११ ॥
कुलकम् ।
पुरोहिते स्मृतिर्वेदा निमित्तापत्प्रतिक्रिया ।
दण्डनीतिज्ञता शुद्धधर्मशीलकुलक्रमाः ॥ ११ ॥
देव्यां विज्ञानचातुर्यं त्रपाशीलव्रतादयः ।
रूपलावण्यसौभाग्यप्रेमशृङ्गारमन्मथाः ॥ १२ ॥