2023-04-09 14:29:28 by ambuda-bot
This page has not been fully proofread.
३२
काव्यकल्पलतावृतिः
इदं पाषाणदलनमन्धस्यालेख्यदर्शनम् ।
मन्त्रणं बधिरैर्मूढ त्वया वादं तनोमि यत् ॥ २७ ॥
एवं जलविलोडनं व्योमहननं निर्द्धनदण्डनं मृगतृष्णायां जलादान-
मिति । तथा-
खड्गधाराग्रसञ्चारमयश्चणकचर्वणम् ।
अङ्गारशयनम्प्रेप्सुर्यत्त्वं मज्जयमोहसे ॥ २८ ॥
एवं सिकताकणभुक्तिस्तप्तत्रपुपानम्, दवानलज्वालालिङ्गनम्, कृष्णसर्प-
मुखचुम्बनम्, व्यालखेलनमित्यादि । तथा—
करेण काङ्क्षासि क्रष्टुं भूस्थ: स्वर्गद्रुमञ्जरीम् ।
वादेन यदसौ मूढ जिघृक्षुर्मज्जयश्रियम् ॥ २६ ॥
एवं शेषशेखर मणि गरुडपक्षैस्वतंसं ऐरावणदन्तैस्ताटङ्कं कृतान्तमहिषेण
पानीयमानयितुं सिंहदंष्ट्रया कण्डूमपनेतुमित्यादि । तथा—
सुखसुप्तस्त्वया सिंहः पादाघातेन बोधितः ।
यदहं वादवचनाटोपेन परिकोपितः ॥ ३० ॥
एवं हस्ताघातेन कृष्णाहिरुत्फणीकृतः, वाताभिमुखस्थितेन दावाग्नि-
ज्वलितः, शरीरसौख्याय कपिकच्छूलतालिङ्गिता, दुर्वासा दुर्वचनैः कोपितः
इत्यादि ।
कुलशास्त्रादिसम्प्रश्नो यथा-
-
कस्मिन् कुले तवोत्पत्तिः कुत्र शास्त्रे परिश्रमः ।
कस्मादकस्मात् प्राप्तोऽत्र सर्वमेतत्प्रकाश्यताम् ॥ ३१ ॥
स्वशास्त्राध्ययनप्रथा यथा-
लक्षणे मम दक्षत्वं साहित्ये संहिता मतिः ।
तर्के कर्कशतात्पर्यं क्व शास्त्रे नास्ति मे श्रमः ॥ ३२ ॥
इत्याद्यनेकोल्लेखैः सर्वच्छन्दोभिर्वादोऽभ्यसनीयः ।
इति श्रोजिनदत्तसूरिशिष्यपण्डित श्रीमदमरचन्द्रविरचितायां
काव्यकल्पलताकविशिक्षावृत्ती छन्दः सिद्धिप्रताने
छन्दोऽभ्यासस्तबको चतुर्थः ॥ ४ ॥