This page has not been fully proofread.

प्रथमप्रताने चतुर्थ: स्तबकः
 
हस्तप्रस्तरताडनेन हि कृतः कृष्णाहिरुद्यत्फणः
सिंह: स्वाङ्घ्रिमहाप्रहारविधिना सुप्तः सुखं बोधितः ।
वातस्याभिमुखस्थितेन भवता दावाग्निरुज्ज्वालितो
वादोन्मादवशंवदेन यदहं साटोपमाकोपितः ॥ २० ॥
जातिः सातिशया तव स्फुरति का श्रीसङ्कलङ्किङ्कलं
 
देश: क्लेशनिवेशलेशरहितः कः सुन्दरङ्घ्रि पुरम् ।
शास्त्रेष्वत्र पवित्रता मतिरपि प्रौढप्ररूढै गिरां
 
भारैः सारतरं विशारद वद प्रीत्यै मम प्रोन्मदः ॥ २१ ॥
किं त्वं लक्षणदक्षिणोऽसि किमु वा साहित्यसौहित्यभू -
 
श्छन्द: कन्दलितोऽसि कि च किमु वाऽलङ्कारसारस्थितिः ।
कि वा तर्हि वितर्ककर्कशमनाः किं ज्ञान विज्ञानवान्
 
यज्जानासि सभां जयेयमिति भोः सर्वं सगवं वद ॥ २२ ॥
सर्वव्याकरणार्णवान्तरमपि क्षोभोद्यमैनिर्मला
 
छन्दः प्रावरणोत्थितावपि विधालङ्कारतारप्रभा ।
षट्कर्मीमकरन्दसङ्गसुरभिः स्फूर्जत्कलाशालिनी
काप्येषा मम शेमुषी सुमनसां स्वान्तानि हन्तुं क्षमा ॥ २३ ॥
अग्रे यस्य न कोऽपि रोपितपदो विद्वान् परप्रातिभ-
प्रौढिप्राभृतकीकरोति निभृतं भानोरिवोडुव्रजः
सोऽहं मोहतमः प्ररोहदमनः प्रागल्भ्यसम्यक्स्फुरद्-
वाग्दीप्तिप्रसरप्रकाशितसुहृवृन्दावृन्दारकः ॥ २४ ॥
 
परगर्हणा यथा-
कृष्णसर्पस्य मण्डूकश्चपेटां दातुमुद्यतः ।
 
रे मूढ यन्मया सार्द्धं विवादं कर्तुमिच्छसि ॥ २५ ॥
 
3
 
एवं वृषभः सुरदन्तिनं विषाणैः प्रहर्तु, द्विपो दन्ताभ्यां गिरि पातयितुं,
शशकः कराभ्यां सिंहस्कन्धकेसरान् क्रष्टुं मूषकः स्वदन्तैर्मार्जारदंष्ट्रां पातयितु-
मुद्यत इत्यादि । तथा-
तुलया तोलनं मेरो: करेण स्थगनं रवेः ।
 
मानं व्योम्नोऽङ्गुलीभिर्यंत प्रेप्सुर्वादेन मज्जयम् ॥ २६ ॥
 
एवं बाहुभ्यामब्धेस्तरणम् शिरसा गिरेभेदः, पद्भ्यां नद्याः प्रतिस्रोतो-
गतिरित्यादि । तथा-
"