2023-04-09 14:29:28 by ambuda-bot
This page has not been fully proofread.
३०
काव्यकल्पलतावृत्तिः
वेदानां सामवेदोऽपि मासानां मार्गशीर्षक: ।
यज्ञानां जपयज्ञश्च श्रीवृक्षः सर्वशाखिनाम् ॥ ११ ॥
वसन्तः सकलतूनामोषधीनां यवोऽपि च ।
तृणानां दर्भों धातूनां स्वर्णं खानां मनस्तथा ॥ १२ ॥
प्रशस्यः पर्जन्यो भुवन जनने जीवनसृजां
सुधांशुधिष्ण्यानां पवनपथरत्नं द्युतिमताम् ।
गिरीणां स्वर्णाद्रिर्मणिसमुदयानां सुरमणि-
द्रुमाणां कल्पद्रुः सुकविनिवहानामहमहो ॥ १३ ॥
इतरेषामपि वर्ण्यानामुत्कर्षायोपमानान्येतानि कल्पनीयानि । यथा -
पीयूषमोषधिषु शाखिषु कल्पशाखी चिन्तामणिर्मणिषु धेनुषु कामधेनुः ।
ध्यानं तपस्सु सुकृतेषु कृपा व्रतेषु ब्रह्मव्रतं क्षितिपतित्वमुरीकरोतु ॥१४॥
वृषो विषाणप्रहतीस्तनोत्यहो जयेहया जम्भनिशुम्भकुम्भिनः ।
मया समं तत्त्वमतत्त्व वित्तमो मुधा कृतोन्मादविवादसादरः ॥ १५ ॥
त्वयाब्धेरारब्धं करचरणचारेण तरणं
करेणोपक्रान्तं स्थगनकरणं चाम्बरमणेः ।
शिरोग्रेण स्वर्गाचलदलनमङ्गीकृतमहो
मदोग्रेण ध्याता यदिह मम वादेन समता ॥ १६ ॥
वदामो यद्दामोदरपदसरिद्वीचिपटल -
प्रगल्भाभिर्वाग्भिर्भवति मतिहीने सति पुनः ।
तदन्धाग्रे नृत्यं बधिरपुरुषे मन्त्रकरणं
दृषत्पेषोत्कर्षो गगनहननं मुष्टिनिवः ॥ १७ ॥
प्रारभ सिकताकणाशनमिदं प्रोद्दामदावानल-
ज्वालालिङ्गनमुग्रशेषतरलव्यालावलीखेलनम् ।
सन्तप्त पुपानकर्म भवता यद्विश्वविश्वम्भरा-
विद्वद्वन्द्यपदद्वयस्य मम भो वादोक्तिरङ्गीकृता ॥ १८ ॥
पक्षीन्द्रपक्षैरवतंसकाङ्क्षा स्वर्दन्तिदन्तैः मितकुण्डलाशा ।
गजास्यकुंम्भस्थलमौक्तिकौघैर्हारस्पृहा मज्जयमीहसे यत् ॥ १६ ॥