This page has not been fully proofread.

प्रथमप्रताने तृतीयः स्तबकः
 
२७
 
द्वादशानामग्रे। स्फारस्फुरत् स्फूर्जन्महाः क्रीडद्गुणः प्रौढोद्यत् रम्योदयत् ।
द्वादशानामग्रे । प्रौढप्रसर्पत् भ्राजिष्णुलक्ष्मी भास्वद्विभाव प्रौढप्रभाव
स्फुटप्रकाश ।
 
पञ्चदशानामग्रे । सारद्युति सर्पद्गुण रङ्गदुचि तारोद्यत् विभाजित
संशोभित ।
 
स्रग्धरायां पूर्वं चतुरक्षराणि । स्फारस्फूर्जत् लीलोन्मीलत् सर्पल्लक्ष्मीः
 
प्रोल्लासिश्रीः ।
 
चतुर्णामग्रे । प्रसपत् विराजत् स्फुटश्रीः । वरेण्य प्रशस्य प्रधान ।
सप्तानामग्रे । वरतर स्फुटतम प्रसृमर विसृम विकसित विलसित
 
प्रकटित ।
 
रुचिर ।
 
एकादशानामग्रे । विलसत् विकसत् बिचरत् सुभग विमल विशद बहुल
चतुर्दशानामग्रे । वल्गुवलगत् चारुचश्चत् सारसर्पद प्रौढलक्ष्मीः
स्फारशोभ ।
अष्टादशानामग्रे । प्रकामम्, नितान्तम्, विसर्पद प्रसर्पद । इत्यादि ।
एवमन्यच्छन्दःस्वपि ज्ञेयम् ।
 
वीर्घहस्वाक्षरद्वन्द्व गणप्रस्तारतः क्रमात् ।
 
ज्ञेयाः साधारणाः शब्दाः सर्वच्छन्दोऽभियुक्तये ॥ ५ ॥
एते शब्दा मत्कृत काव्यकल्पलतापरिमलात् ज्ञेयाः ।
 
॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचितायां
काव्यकल्पलताक विशिक्षावृत्ती छन्दः सिद्धिप्रताने
प्रथमे सामान्यशब्दस्तबकस्तृतीयः ॥ ३ ॥