This page has not been fully proofread.

प्रथमप्रताने तृतीयः स्तबकः
 
प्राकृपदाश्रितैकाक्षरं चादे: पूर्वन्तु नो यतिः ॥ १८ ॥
 
यथा-
यथा-
स्वादु स्वच्छं च सलिलमिदं प्रीतये कस्य न स्यात् ॥
अप्राक्पदसम्बद्ध
स्यानेकाक्षरस्य तु पूर्वं भवति ।
 
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थंकृत्याः ।
प्रत्यादेशापि च मधुनो विस्मृतभूविलासम् । इत्यादि ।
इत्याद्यौचित्यतो ज्ञेया यतिः श्रुतिसुखा बुधैः ॥ १९ ॥
 
यदुक्तम् –
 
अबह्वर्थाsपि मधुरा मनो हरति भारती ।
तमोनिचयसङ्काशा मत्तनादेव कोकिला ॥ ५७ ॥
 
इति श्रीजिनदत्त सूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचितायां
काव्यकल्पलताक विशिक्षावृत्ती छन्दः सिद्धिप्रताने
छन्दोऽभ्यासस्तबको द्वितीयः ॥ २ ॥
 
अथ प्रथमप्रताने तृतीयः स्तबकः
 
अथ छन्दः पूरणाय सामान्यशब्दाः-

 
छन्वःस्वनुष्टुबमुख्येषु शब्दाः शीघ्रत्वसिद्धये ।
 
क्रमाक्रमोचिता ज्ञेयाः सामान्यैकाक्षराविकाः ॥ १ ॥
 
प्रथमेऽनुष्टुभः पादे
 
क्रमादेकाक्षरादयः ।
 
व्यतिक्रमाच्य कथ्यन्ते शब्दाः साधारणा यथा ॥ २ ॥
 
प्रथमैकाक्षरम् –
 
श्री, सं, सन्, द्राक्, विश्, आ, नि, श्राक्, सु, उत, तत्, ।
 
१६