This page has not been fully proofread.

प्रथमप्रताने द्वितीयः स्तबकः
 
श्लोकार्द्धन समासो यथा-
सुरासुर शिरोरत्नराजिनीराजितक्रमः ।
जयत्यपारसंसारपारदृश्वा जिनेश्वरः ॥ ५४ ॥
 
न त्ववेम् ।
 

 
सुरासुरशिरोरत्नस्फुरत्किरणमञ्जरी
पिञ्जरीकृतपादाब्जद्वन्द्व वन्दामहे शिवम् ॥ ५५ ॥
 
अर्धेन सन्धियंथा-
नमस्यामि सदोद्भूतमिन्धनीकृतमन्मथम् ।
ईश्वराख्यं परं ज्योतिरज्ञानतिमिरापहम् ॥
 
यति कुर्यात् पदान्तस्यां पदमध्येऽपि कुत्रचित् ।
 
यथा-
पर्याप्तं तप्तचामीक स्कनकतटे श्लिष्टशीतेतरांशावित्यादि । यथा-
कूजत्कोर्याष्टिकोलाहलमुखरभुवः प्रान्तकान्तारदेशा इति । हासो हस्ताग्र-
संवाहनमपि तुलिताद्रीन्द्रसारद्विषोऽस्येति । वैरञ्चानां तथोच्चारितचतुरऋचां
चाननानां चतुर्णामिति । खड्गे पानीयमाह्लादयति हि महिषं पक्षपाती
पृषक इति ।
 
स्यात् पूर्वोत्तरभागस्यैकाक्षरत्वे तु नो यतिः ॥ १४ ॥
 
पूर्वभागस्यैकाक्षरत्वे यथा—
 
एतस्या गण्डतलममलं गाहते चन्द्रकक्षामिति । एतासां राजति सुमनसां
बामकण्ठावलम्बीति ।
 
उत्तरभागस्थैकाक्षरत्वे यथा -
 
१७
 
सुरासुरशिरोरत्ननिघृष्टचरणारविन्दः शिवः ॥ इति ।
 
पादान्तेऽपि पदमध्ये न प्रायः क्रियते यतिः ।
 
यथा-
प्रणमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्दहेतुमिति ।
सन्धौ स्वरः क्वचित्पूर्वान्तवत्क्वचित्परादिवत् ॥ १५ ॥
 
का० - ३