2023-04-09 14:29:25 by ambuda-bot
This page has not been fully proofread.
१६
काव्यकल्पलतावृत्तिः
मन्द्राक्रान्ताया आद्यदशाक्षरैः शिखरिण्याः प्रान्तषडक्षरैर्मंदनललिता ।
शालिन्या आद्यचतुरक्षरै: शार्दूलस्य प्रान्तद्वादशाक्षरैः कामलता ।
मन्दाक्रान्ताया आद्यदशाक्षरै: शार्दूलस्य प्रान्तसप्ताक्षरैर्हरिणी ।
हरिण्या आद्यदशाक्षरैः शालिन्याः प्रान्तसप्ताक्षरैः
पद्मम् ।
हरिण्या आद्यदशाक्षरै: शार्दूलस्य प्रान्तसप्ताक्षरै रोहिणी ।
स्रग्धराया आद्यसप्ताक्षरैः शार्दूलस्य प्रान्तैकादशाक्षरैः काञ्ची ।
चन्द्रलेखाया आद्यैकादशाक्षरैर्हरिण्याः प्रान्तसप्ताक्षरैश्चलम् ।
चन्द्रलेखाया आद्यैकादशाक्षरै: शार्दूलस्य प्रान्तसप्ताक्षरैः केसरम् ।
हरिण्या आद्यैकादशाक्षरै: शालिन्याः प्रान्तसप्ताक्षरैश्चन्द्रमाला ।
शिखरिण्या आद्यद्वादशाक्षरैर्हरिण्याः प्रान्तसप्ताक्षरैर्मक रन्दिका ।
शिखरिण्या आद्यद्वादशाक्षरै: शार्दूलस्य प्रान्तसप्ताक्षरैश्छाया ।
स्रग्धराया आद्यचतुर्दशाक्षरै: शिखरिण्याः प्रान्तषडक्षरैः सुवदना ।
इत्यादि स्वबुद्धयाऽप्यूह्यम् ।
अथ यतिशिक्षामाह -
पादान्ते आद्याक्षरविच्छिन्नपादाग्तयोयंतिः क्रियते ।
लुप्तालुप्तविभक्तिकयोः पुनरर्घे समाससन्धी न ॥ १३ ॥
न
पादान्ते यथा—
शाश्वतानन्दरूपाय तमः स्तोमैकभास्वते ।
सर्वज्ञाय नमस्तस्मै कस्मैचित्परमात्मने ॥ ५३ ॥
न त्वेवम् ।
नमस्तस्मै महादेवाय शशाङ्कार्धधारिणे ॥ इति ।
लुप्तविभक्तिके यथा-
-
नमस्तुङ्गशिरश्चुम्बि चन्द्रचामरचारवे ।
अलुप्तविभक्तिके यथा-
वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् ॥ इति ।
आद्याक्षरविच्छिन्ने लुप्तालुप्तविभक्तिके यथा-
उत्तुङ्गस्तनकलशद्वयानताङ्गी लोलाक्षी विपुलनितम्बशालिनी च ।
यक्षश्चक्रे जनकतनया स्नानपुण्योदकेष्वित्यादि ।