This page has not been fully proofread.

प्रथमप्रताने द्वितीयः स्तबकः
 
रथोद्धतायामादौ गुरुणा
 
ललिता ।
 
वंशस्थे सप्ताक्षराग्रे लघुना मञ्जुभाषिणी ।
 
नन्दिनी ।
 
रथोद्धतायामादौ लाभ्यां
स्वागतायां
 
प्रथमं
 
लाभ्यां
 
कुटजम् 1
 
वंशस्थे पूर्वलघुना सुदन्तम् ।
 
इन्द्रवज्रायां चतुरक्षराग्रे नगणेन वसन्ततिलका ।
शालिन्यां चतुरक्षरान्ते चतुर्गुरुभिश्चित्रा ।
वसन्ततिलकायाः प्रान्तगुरोः प्राक् लघुना मृदङ्गकः ।
शिखरिण्याः प्रान्तगुरोः प्राक् लघुद्वयस्थाने गुरुणा जयानन्दम् ।
शालिन्यां चतुरक्षरा नसाभ्यां मन्दाक्रान्ता ।
लक्ष्म्यां सप्ताक्षरप्रान्ते नगाभ्यां काञ्ची ।
मन्दाक्रान्तायां चतुरक्षराग्रे लघुना चन्द्रलेखा ।
मन्दाक्रान्तायां चतुरक्षराग्रे गुरुणा कुसुमितलतावेल्लिता ।
 
हरिण्यामादौ लघुना ललितम् ।
 

 
मन्दाक्रान्तायामादौ लगाभ्यां मेघविस्फूजिता ।
शार्दूले आद्यगुरुस्थाने लाभ्यां मत्तेभविक्रीडितम् ।
शार्दूलस्य प्रान्तचतुरक्षरस्थाने सगणेन शार्दूलललितम् ।
मेघविस्फूजितायां षडक्षराग्रे लघुना शोभा ।
काञ्च्यां सप्ताक्षराग्रे लाभ्यां चित्रमाला ।
लक्ष्म्यां सप्ताक्षरान्ते नभगैः स्रग्धरा
काञ्च्यां सप्ताक्षराग्रे नगणेन स्रग्धरा ।
स्रग्धरायामाद्यगुरुस्थाने लाभ्यां महास्रग्धरा ।
शार्दूलविक्रीडितान्ते सलगैविभ्रमगतिः ।
प्रमिताक्षरायामाद्यपञ्चाक्षरै: पर्यन्ते क्षिप्त द्रुतविलम्बितम् ।
स्रग्धराया आद्यसप्ताक्षरैर्हरियाः प्रान्तसप्ताक्षरैर्जया ।
स्रग्धराया आद्यसप्ताक्षरः शार्दूलस्य प्रान्तसप्ताक्षरैज्योत्स्ना ।
मालिन्या आद्याष्टाक्षरैः शार्दूलस्य प्रान्तसप्ताक्षरैश्चन्द्रोद्योतः ।
मालिन्या आद्याष्टाक्षरैहरिण्याः प्रान्तसप्ताक्षरैरुपमालिनी ।