This page has not been fully proofread.

daha
 
कांव्यकल्पलतावृत्तिः
 
Ra
 
प्रतिपक्षक्षमाऩाथतिमिरोन्माथभानुमान्
न्यायवल्लीपयोवाहः स विभाति भुवो विभुः ॥ ४४ ॥
छन्दोऽन्त रैर्यथा-
प्रत्यर्थपृथ्वीहृदयाधिनाथध्वान्तौघविध्वंसनवासरेशः
सन्नीतिवल्लीवननीरवाहो विश्वम्भराया दयितो विभाति ॥ ४५ ॥
 
दुर्धरारिधरणीधवोद्धतध्वान्तमण्डलविखण्डनांशुमान्
 

 
नीतिवल्लिवननूतनाम्बुदो मेदिनीविभुरसौ विभासते ॥ ४६ ॥
 
क्रूरारातिक्ष्मापजातिप्रतानध्वान्तस्तोमध्वंसनव्योमरत्नम्
न्यायोन्मीलद्वल्लिनव्याम्बुवाहो भूभामिन्या वल्लभो भासतेऽसौ ॥ ४७ ॥
दृष्यद्विरोधिधरणीदयितान्धकारप्राग्भारतारमददारुणतीक्ष्णभानुः ।
सन्न्यायवर्तिवननूतनतोयवाहो विभ्राजते वसुमतीयुवतीभुजङ्गः ॥ ४८ ॥
मालिन्यामेव यथा -
 
अवनिघवकिरीटन्यस्तवैदूर्य रत्न द्युति मिषमधुपालो सेव्यपादारविन्दः ।
निखिलनृपतिचूडामाल्यसौरभ्यलुभ्यन्मधुपयुवति राजीनादवाचालपादः ॥ ४६॥
अतुलधरणिपालश्रेणिवेणिप्रसून प्रसृमरमकरन्दस्नातपादारविन्दः ।
 
प्रणमदवनिनाथोत्तंसमाणिक्यमालाकिरणघुसृणनीरस्नातपादाब्जयुग्मः ॥ ५० ॥
नमदखिलधरित्रीनाथचूडाकिरीटस्फटिक किरणमालासेव्यमानाङ्घ्रिपद्मः ।
निजचरणनखांशुव्याज काश्मीरपङ्कक्षणतिलकितनश्रीभूतभूपालफालः
 
॥५१॥
 

 
ततनृपतिकिरीटस्फारमाणिक्यमालास्फुरदरुणमयूखद्योतमानाङ्घ्रिपीठः
प्रणतनृपतिराजीमौलिकोटी रकोटीस्फटिक रुचिजलान्तः शोभमानाङघ्रि पद्मः ॥५२॥
एवं परकृतान्यपि काव्यानि पदान्त रैश्छदोऽन्त रैश्छन्दः सिद्धये परावर्तयेत् ।
अक्लेशेन छन्दसां ज्ञानोपायमाह -
 
कियन्मात्रेषु सिद्धेषु च्छन्दःस्वभ्यासतः सुधीः ।
 
शेषाणां छन्दसां सिद्धयै छन्दोमर्माणि चिन्तयेत् ॥ १२ ॥
 
यथा-
भद्रिकायामन्ते गलाभ्यां रथोद्धता ।
 
इन्द्रवज्रोपेन्द्रवज्रयोरन्तगुरोः प्रागधिकलघुना इन्द्रवंशावंशस्थे भवतः ।
 
विदुब्यामन्त्यवर्णद्वयात् प्राक् लघुना मोटकम् ।
मोटके पूर्वगुरुस्थाने लाभ्यां तोटकम् ।