This page has not been fully proofread.

प्रथमप्रताने द्वितीयः स्तबको
 
ध्वस्तवान्तभरा रत्नवेश्मविस्मेररश्मिभिः ।
 
राजधानी दिनस्येव तरपुरं द्योतते सवा ॥ १० ॥
इत्यादि सर्वार्थवर्णनैर्यथा ये केऽपि पदार्था दृग्गोचरीभवन्ति ते वर्ण्याः ।
 
यथा-
स्थालो भाति विशालेयं सिद्धानपरिपूरिता ।
भूरिकर्पूरसौरभ्यै रम्भोभि; शोभते घटः ॥ ३६॥
दिनकृत्यवर्णनैर्यथा-
अयमुद्यमवान् ब्राह्म मुहूर्ते निद्रयोज्झितः ।
सद्यः शय्यां परित्यज्य चक्रे देवगुरुस्मृतिम् ॥ ३७ ॥
नमस्कारपरावर्तपरायणमनाः
क्षणम् ।
स्थित्वा बाह्यभुवं गत्वा देहचिन्तां विनिर्ममे ॥ ३८ ॥
सदनं पुनरागत्य विदधे दन्तधावनम् ।
 
स्नानमाधाय शुद्धात्माऽऽनर्च देवं जगद्गुरुम् ॥ ४६ ॥
 
इत्यादि । लोकानां या चेष्टा दृश्यते सा सा काव्यबन्धे न कार्या ।
 
यथा-
पुष्पाणि पाणिदेशेऽसौ कृत्वा क्रीणाति कामुकः ।
ताम्बूलिकोऽपि ताम्बूलमस्य पश्यार्पयत्यसौ ॥ ४० ॥
मित्रेण सममालापमयमारचयत्यहो
 

 
अयं हृष्टो हसत्युच्चैरयं गायति गायनः ॥ ४१ ॥
 
पुनरुपायान्तरमाह -
 
तदर्थान्यपदैः स्वान्यश्लोकार्थपरिवर्तनात् ।
 
तत्रैव च्छन्दस्यभ्यस्थेदन्यच्छन्दोऽन्तरेष्वपि ॥ ११ ॥
 
१३
 
स्वकृतं परकृतं वा श्लोकं तदर्थेन च नवैः पदस्तेनैव च्छन्दसा छन्दोऽन्तरैर्वा
परिवर्तयेत् । यथा तत्रैव च्छन्दसि
-
 
प्रत्यर्थपृथिवीपालतमोजालदिवाकरः 1.
 
नीतिव्रततिपर्जन्यो राजते पृथिवोपतिः ॥ ४२ ॥
प्रत्यनीकावनी कान्तध्वान्त विध्वंसनांशुमान् ।
नयवल्लिवनाम्भोदः शोभते भूमिवल्लभः ॥ ४३ ॥