This page has been fully proofread once and needs a second look.

वृक्षात्पतन्ति पर्णानि राज्ञो धर्मे दृढा मतिः ।
 
स्यादिविभक्तिविशेषजैर्यथा--
 
प्रविशन्ति पुरे कुन्ता हे शिष्य पठ सर्वदा ।
मातरं मातुरस्मार्षीन् मातुरध्येति मातरम् ॥ १५ ॥
 
त्यादिविभक्तिविशेषजैर्यथा--
 
स्म पुराधीयते तेनेति ह स्म कथयत्यदः ।
वसन्तीह पुरा छात्रा राघवो भाषते तदा ॥ १६ ॥
 
ऊषुरत्र पुरा च्छात्रा बभाषे राघवस्तदा ।
पुरावसन्निह च्छात्रास्तदाऽभाषत राघवः ॥ १७ ॥
 
पुराऽवात्सुरिह च्छात्रास्तदाऽभाषिष्ट राघवः ।
यावद्भुङ्क्ते पुरा भुङ्क्ते पुरा श्वो भुङ्क्त इत्यपि ॥ १८ ॥
 
समाससंश्रितैर्यथा--
 
नीलोत्पलञ्जरद्धस्ती केवलान्नं नवोदकम् ।
पञ्चपूली सुखप्राप्तो गोहितं ग्रामनिर्गतः ॥ १९ ॥
आरूढवानरो वृक्षः पलाशधवपिप्पलाः ।
पीतच्छत्रोपानहं स्यादुपकुम्भमधिस्त्रि च ॥ २० ॥
 
नवममालाशब्दैर्यथा--
 
धात्री वसुन्धरा भूमिः काननं विपिनं वनम् ।
राजा पृथ्वीपतिर्भूपः समुद्रोऽम्बुधिवारिधी ॥ २१ ॥
 
यौगिकशब्दैर्यथा--
 
क्षितीशः क्षमापतिः क्ष्मापः क्षोणीनाथः क्षमापतिः ।
लक्ष्मीशः श्रीपतिः श्रीपः स्वर्नाथः स्वर्गनायकः ॥ २२ ॥
 
निरथैर्यथा--
 
सकाकाचमसाराचसमासाविहरादरा ।
सगावगावरागासासोरानोरासकधीमधी ॥ २३ ॥
 
सार्थकैर्यथा--
 
तर्णको वर्णकश्चैव कर्णकश्चित्रपर्णकः ।
<error>कुडम्मुडम्महालीकं</error> <fix>कुण्डं मुण्डं महामोकं</fix> स्तोकं सङ्कुलसङ्करौ ॥ २४ ॥