This page has not been fully proofread.

fo
 
.
 
काव्यकल्पलतावृत्तिः
 
वृक्षात्पतन्ति पर्णानि राज्ञो धर्मे दृढा मतिः ।
स्यादिविभक्तिविशेषजैर्यथा-
प्रविशन्ति पुरे कुन्ता हे शिष्य पठ सर्वदा ।
मातरं मातुरस्मार्षीन् मातुरध्येति मातरम् ॥ १५ ॥
 
त्यादिविभक्तिविशेषजैर्यथा-
स्म पुराधीयते तेनेति ह स्म कथयत्यदः ।
वसन्तीह पुरा छात्रा राघवो भाषते तदा ॥ १६ ॥
ऊषुरत्र पुरा च्छात्रा बभाषे राघवस्तदा ।
पुरावसन्निह च्छात्रास्तदाऽभाषत राघवः ॥ १७ ॥
पुराऽवात्सुरिह च्छात्रास्तदाऽभाषिष्ट राघवः ।
यावद्भुङ्क्ते पुरा भुङ्क्ते पुरा श्वो भुङ्क्त इत्यपि ॥ १८ ॥
समाससंश्रितैर्यथा-
नीलोत्पलञ्जरद्धस्ती केवलान्नं नवोदकम् ।
पञ्चपूली सुखप्राप्तो गोहितं ग्रामनिर्गतः ॥ १६ ॥
.आरूढवानरो वृक्षः पलाशधवपिप्पलाः ।
पीतच्छ्त्रोपानहं स्यादुपकुम्भमधिस्त्रि च ॥ २० ॥
२ नवममालाशब्देर्यथा-
धात्री वसुन्धरा भूमि: काननं विपिनं वनम् ।
राजा पृथ्वीपतिर्भूप: समुद्रोऽम्बुधिवारिधी ॥ २१ ॥
यौगिकशब्दर्यथा-
क्षितीशः क्षमापतिः क्षमापः क्षोणीनाथः क्षमापतिः ।
लक्ष्मीशः श्रीपतिः श्रीपः स्वर्नाथः स्वर्गनायकः ॥ २२ ॥
 
निरथैर्यथा-
सकाकाचमसाराचसमासाविहरादरा ।
 
सगावगाव रागासोरानोरासकधीमधी ॥ २३ ॥
 
सार्थकैर्यथा-
तर्णको वर्णकश्चैव कर्णकश्चित्रपर्णकः ।
कुंडम्मुडम्महालीकं स्तोकं सङ्कलङ्करी ॥ २४ ॥