This page has been fully proofread once and needs a second look.

तद्धितशब्दैर्यथा--

इदानीमधुना सद्यः कुत्र यत्रं यथा तथा ।
सर्वथा सर्वदा धीमान् बहुधाऽनेकधा कथम् ॥ ४ ॥
 
आख्यातशब्दैर्यथा--
 
करोति तनुते वेत्ति वक्ति जानाति पृच्छति ।
भुङ्क्ते भक्षयति प्साति स्तौति रौति न वाति च ॥ ५ ॥
 
कृत्शब्दैर्यथा--
 
अलङ्करिष्णुवन्दारुभासुरस्पृहयालवः ।
संविधाय विधातुं स भेजिवान् कृतवानपि ॥ ६ ॥
 
स्यादिशब्दैर्यथा-

हंसो हंसौ शुभौ हंसा हंसं हंसौ च हंसकान् ।
हंसेन वरहंसाभ्यां हंसैर्हंसाय शोभते ॥ ७ ॥
 
हंसाभ्यां राजहंसेभ्यो हंसात् हंसस्य हंसयोः ।
हंसानां प्रवरे हंसे हंसयोर्हंसकेष्वपि ॥ ८ ॥
 
बाला बाले वरा बाला बालाम्बाले मनोरमे ।
बाला बालया बालाभ्याम्बालाभिः प्रतिवासरम् ॥ ९ ॥
 
बालायै वरबालाभ्यां बालाभ्यस्तदनन्तरम् ।
बालाया वरबालाभ्यां बालाभ्योऽपि निरन्तरम् ॥ १० ॥
 
बालाया बालयोर्नित्यं बालानां विभ्रमस्पृशाम् ।
बालायां बालयोरेव बालासु सकलास्वपि ॥ ११ ॥
 
त्यादिशब्दैर्यथा--

करोति कुरुते नित्यन्ते कुर्वन्ति करोषि किम् ।
कुरुथः कुरुथ स्पष्टङ्करोमि वितनोमि च ॥ १२ ॥
 
कुर्वः कुर्मो वयङ्कार्यं कुरुते कार्यमुत्तमः ।
कुर्वाते कुर्वते देवाः कुरुषे त्वं रुषोज्झितः ॥ १३ ॥
 
कुर्वाथे कुरुध्वे कुर्वे कुर्वहे कुर्महे वयम् ।
 
एवं सर्वकालविभक्तिषु । कर्तृकर्मादिशब्दैर्यथा--
 
कटङ्करोति दत्तोऽयन्तृणैर्दत्ते द्विजाय गाम् ॥ १४ ॥
 
का०--२