This page has been fully proofread once and needs a second look.

तद्धितशब्दयंथा-
दैर्यथा--
इदानीमधुना सद्यः कुत्र यत्रं यथा तथा ।

सर्वथा सर्वदा धीमान् बहुधानेकधा कथम् ॥ ४
 

 
आख्यातशब्दैर्यथा -
 
प्रथमप्रताने द्वितीयः स्तबक
 
--
 
करोति तनुते वेत्ति वक्ति जानाति पृच्छति ।

भुङ्क्ते भक्षयति प्साति स्तौति रौति न वाति च ॥ ५ ॥
 

 
कृत्शब्दर्यथा-
दैर्यथा--
 
अलङ्करिष्णुवन्दारुभासुरस्पृहयालवः
 

संविधाय विधातुं स भेजिवान् कृतवानपि ॥ ६ ॥
 

 
स्यादिशब्दैर्यथा-

हंसो हंसौ शुभौ हंसा हंसं हंसौ च हंसकान् ।

हंसेन वरहंसाभ्यां हंसैहँर्हंसाय शोभते ॥ ७ ॥
 

 
हंसाभ्यां राजहंसेभ्यो हंसात् हंसस्य हंसयोः ।

हंसानां प्रवरे हंसे हंसयोर्हंसकेष्वपि ॥ ८ ॥

 
बाला बाले वरा बाला बालाम्बाले मनोरमे ।

बाला बालया बालाभ्याम्बालाभिः प्रतिवासरम् ॥ ६॥
९ ॥
 
बालायै वरबालाभ्यां बालाभ्यस्तदनन्तरम् ।

बालाया वरबालाभ्यां बालाभ्योऽपि निरन्तरम् ॥ १० ॥

 
बालाया बालयोर्नित्यं बालानां विभ्रमस्पृशाम् ।

बालायां बालयोरे बालासु सकलास्वपि ॥ ११ ॥
 

 
त्यादिशब्दैर्यथा-
-
करोति कुरुते नित्यन्ते कुर्वन्ति करोषि किम् ।

कुरुथः कुरुथ स्पष्टङ्करोमि वितनोमि च ॥ १२ ॥
कुर्वं: कुर्मों

 
कुर्वः कुर्मो
वयङ्कार्यं कुरुते कार्यमुत्तमः ।

कुर्वाते कुर्वते देवाः कुरुषे त्वं रुषोज्झितः ॥ १३ ॥

 
कुर्वाथे कुरुध्वे कुर्वे कुवँर्वहे कुमँर्महे वयम् ।

 
एवं सर्वकालविभक्तिषु । कर्तृकर्मादिशब्दर्यथा-
दैर्यथा--
 
कटङ्करोति दत्तोऽयन्तृणैर्दत्ते द्विजाय गाम् ॥ १४ ॥
 

 
का० -- --