This page has been fully proofread once and needs a second look.

एकोनविंशत्यक्षरम् -
 
--
 
आदित्यैर्यदि मः सजौ सततगा शार्दूलविक्रीडितम् ।
 

 
एकविंशत्यक्षरम् -
 
काव्यकल्पलतावृत्तिः
 
बि
--
 
वि
ज्ञेया स्रग्धराऽसौ मरभनययया वाहवाहैर्यंतिश्चेत् ।
 

 
अर्द्धसमम् -
 
--
 
अयुजि ननरजा भवन्ति पादे युजि च नजौ जरगाश्च पुष्पिताग्रा ।

विषमे ससजा गुरू समे स्युः सभरा यौ यदि मालभारिणी सा ।

एतावौपच्छन्दसिक भेदौ ।
 

विषमे ससजा गुरुः समे सभरा ल्गौ तु तदा प्रबोधिता ।

अयं वेतालीयभेदः ।
 

 
अथ आर्यालक्षणम् -
 
--
 
यस्यां सप्तचतुष्कलगणा गुरुश्च जगणो न विषमे स्यात् ।

जः षष्ठोऽथ नलघुकौ पूर्वार्द्धे जगुरिमामार्याम्
 
॥ २ ॥
 
षष्ठे द्वितीयलात्परके नले मुखलाच्च यदिह पघटना ।

अपरार्धे पश्ञ्चमके मुखलादिह भवति षष्ठो लः ॥ ३ ॥

 
अन्यत् आर्याच्छन्दो मत्कृतच्छन्दोरत्नावल्यां ज्ञेयमिति ।

पुनच्छन्दोऽभ्यासोपायमाह -
 
--
 
चतुष्कतद्धिताख्यातकृत्स्याविदित्यादिसम्भवैः ।

कर्तृकर्मादिसित्यादिविभक्त्युत्थविशेषजैः
 
॥ ४ ॥
 
समाससंश्रितंतैर्नाममालोत्थैर्यौगिकैरपि

निरर्थैरर्थं संयुक्तैर्लाटानुप्राससंयुतैः
बड़
॥ ५ ॥
 
षड्
भाषासम्भव:वैः शब्वैदैरभ्य सेच्छब्दभेदजैः ।
 

 
शब्दैरिति सर्वत्र सम्बन्धनीयम् । चतुष्कशब्दैर्यथा-
॥ ४॥
 
॥५॥
 
॥ २॥
 
-
 
दण्डाग्रं सा गता नारी दधीदं हि नदीयते ।

मधूदकं वधूढासा तवेहा सेयमङ्गना ॥ ३ ॥