This page has not been fully proofread.

एकोनविंशत्यक्षरम् -
 
आदित्यैर्यदि मः सजौ सततगा शार्दूलविक्रीडितम् ।
 
एकविंशत्यक्षरम् -
 
काव्यकल्पलतावृत्तिः
 
बिज्ञेया स्रग्धराऽसौ मरभनययया वाहवाहैर्यंतिश्चेत् ।
 
अर्द्धसमम् -
 
अयुजि ननरजा भवन्ति पादे युजि च नजौ जरगान पुष्पिताग्रा ।
विषमे ससजा गुरू समे स्युः सभरा यौ यदि मालभारिणी सा ।
एतावौपच्छन्दसिक भेदौ ।
 
विषमे ससजा गुरुः समे सभरा लगौ तु तदा प्रबोधिता ।
अयं वेतालीयभेदः ।
 
अथ आर्यालक्षणम् -
 
यस्यां सप्तचतुष्कलगणा गुरुश्च जगणो न विषमे स्यात् ।
जः षष्ठोऽथ नलघुकौ पूर्वा जगुरिमामार्याम्
 
षष्ठे द्वितीयलात्परके नले मुखलाच्च यदिह पवघटना ।
अपरार्धे पश्चमके मुखलादिह भवति षष्ठो लः ॥ ३ ॥
अन्यत् आर्याच्छन्दो मत्कृतच्छन्दोरत्नावल्यां ज्ञेयमिति ।
पुनच्छन्दोऽभ्यासोपायमाह -
 
चतुष्कतद्धिताख्यातकृत्स्यावित्यादिसम्भवैः ।
कर्तृकर्मादिसित्यादिविभक्त्युत्थविशेषजैः
 
समाससंश्रितंर्नाममालोत्थैयौगिकैरपि
निरर्थैरर्थं संयुक्तैर्लाटानुप्राससंयुतैः
बड़भाषासम्भव: शब्वैरभ्य सेच्छब्दभेदजैः ।
 
शब्दरिति सर्वत्र सम्बन्धनीयम् । चतुष्कशब्दर्यथा-
॥ ४॥
 
॥५॥
 
॥ २॥
 
दण्डाग्रं सा गता नारी दधीदं हि नदीयते ।
मधूदकं वधूढासा तवेहा सेयमङ्गना ॥ ३ ॥