This page has been fully proofread once and needs a second look.

दोधकमुक्तमिदं भभभाद्गौ ।

सससा लगुरू विदुषी मता ।

तो जोजै लगुरू यदि मोटनकम् ।

म्मौ नलौ वेदैर्भ्रमरबिलसितम् ।
 

 
द्वादशाक्षरम् -
 
प्रथमप्रताने द्वितीयः स्तबकः
 
--
 
ख्यातेन्द्रवंशा ततजैरसंयुतैः ।

वदन्ति वंशस्थमिदं जतीतौ जरौ ।

द्रुतविलम्बितमत्र नभौ भरौ ।

इह तोटकमम्बुधिसैः प्रथितम् ।

चतुर्भिर्यकारैर्भुजङ्गप्रयातम् ।

सम्मता स्रग्विणी रैश्चतुर्भिर्मता ।

त्भौ जौ यदा तु ललिता भवेत्तदा ।

प्रमिताक्षरा सगणतो जससैः ।

परिकीर्तितं केकिरवं सयौ स्यौ ।
 

 
त्रयोदशाक्षरम् -
 
--
 
त्रिच्छेदा मनजर गे:गैः प्रहर्षिणीयम् ।
जती

जतौ
ससौ गो भवति मञ्जुभाषिणी ।

सजसा जगौ यदि तदा तु नन्दिनी ।

सजसा सगौ यदि तदा कुटजं स्यात् ।

गदितं सुदन्तं सयसा जगौ यदा ।

 
चतुर्दशाक्षरम् -
 
--
 
ख्याता वसन्ततिलका तभजा जगौ गः ।

अश्वैर्लक्ष्मीर्मतेयं म्रौ ततौ गद्वयञ्चेत् ।
 

 
पश्चदशाक्षरम् -
 
--
 
वसुयतिरियमुक्ता मालिनी नौ मयौ यः ।
 

 
सप्तदशाक्षरम्-
-
 
गुहास्यैर्विश्रान्तिर्यमनसभला गः शिखरिणी ।

यतिर्वसुकृता जसौ जसयलाश्च पृथ्वी गुरुः ।

मन्दाक्रान्ता मभनततगा गो यतिर्वेदषड्भिः ।

नसमरसला गः षड्वेदैर्यतो हरिणी मता ।
 
२७