This page has been fully proofread once and needs a second look.

प्रथम प्रताने प्रथमः स्तबक
 
गुणाद्वर्ण्यवर्णादेः परतः श्रीशब्दस्तथैतदुपलक्षणात् लक्ष्मीच्छायाशोभाकला-

कान्तिभावप्रत्ययादयः कार्यास्ततस्तत्परतः समासेन युतार्था प्भ्राजिष्णुरोचिष्णु-

द्योतितार्थादयश्च । क्वापि श्रीप्रभृतिशब्दान् विनापि केवलगुणादेव परतस्तथा ।

क्वचिदसमासेनापि युतार्थादयो योज्याः । यथा-
-
 
शोणश्रीसंयुतो
 
भानुर्वृत्तलक्ष्मीसमन्वितः ।
 

अंशूनां शोभया कीर्णो गगनस्थितिसङ्गतः ॥ ६ ॥

 
श्यामलद्युतिविभ्राजो गर्जिरोचिष्णुवैभवः ।

विद्युता द्योतितः प्रीतितिं स्तनयित्नुस्तनोत्ययम् ॥ ७ ॥
 

 
तुल्यादमो सदृर्गजग्जिष्णुमुख्याः पूर्वं जितादयः ॥ २२ ॥
 

 
तुल्याद्वर्ण्यस्य वर्णादिभिस्समानात्परतोऽमी पूर्वोक्तरीत्या युतार्थाद्यास्तथा

सदृगर्थाश्च जिष्णुजैत्रजयिजित्वरजितमुख्याश्च । तथैतदुपलक्षणात् स्पर्द्धिधिक्कार-
रि-
निर्भर्त्सक विडम्बनतर्जकादयो योज्याः । तथा तुल्यात्पूर्वं जित-भर्त्सित-बिविडम्बित-

धिक्कृत-न्यक्कृत-निकृत-पराभूत-अवहेलित-अवगणित-अवमानित - -तिरस्कृत-

अधःकृत-तर्जितादयो योज्याः । यथा-
-
 
चण्डश्रीसंयुता कीर्तिः कर्पूरभ्राजिवैभवा ।

यस्य गङ्गोर्मिरोचिष्णुः कुन्दश्रीद्योतिता बभौ ॥ ८ ॥

 
कैलाससदृशं रेजे विष्णुशङ्खांशुजिष्णुभम् ।

यद्यशो विधुधिक्कारि तुषाराद्रिविडम्बनम् ॥ ६ ॥
९ ॥
 
जितपार्वणशीतांशु पराभूतभवाचलम् ।

निर्भर्त्सिततुषाराद्रि भाति भूप भवद्यशः ॥ १० ॥
 

 

 
इति श्रीजिनदत्तसूरिशिष्यप ण्डित श्रीमदम रचन्द्रविरचितायां

काव्यकल्पलताकविशिक्षावृत्तीतौ छन्दः सिद्धिप्रताने

प्रथमेऽनुष्टुप्छासनस्तबकः प्रथमः ॥१॥